पृष्ठम्:शिवलीलार्णवः.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३७
एकोनविंशः सर्गः ।


ततस्ततो जलदकुले तटिद्गणाश्चकाशिरे चपलमरीचिवीचयः ।
विहाय भूतलमिव तद्दिधक्षया विनिस्सृताः प्रलयहुताशनार्चिषः ॥ ५९ ॥
ततोऽयुतायुतयुगयोजनोन्नतास्तदर्चिषः सलिलनिपातकुण्ठिताः ।
ह्रसीयसीमुपगमिता दशां तदा निरीक्षिताः प्रियकवनाश्रितैर्गणैः ॥ ६० ॥
परस्परं प्रलयहुताशमेघयोर्भयानके प्रचलति साम्परायिके ।
समागता भुवि समये हविर्भुजा सनाभयः किमशनयः पयोमुचः ॥ ६१ ॥
उभावपि प्रलयदशानिरङ्कुशावुभावपि त्रिपुरहरस्य गात्रजौ ।
तथापि तु व्यजयत वारिदोऽनलं जयः कथं जगदुपतापिनो भवेत् ॥ १२ ॥
भयानकैरशनिनिपातनिस्वनैः प्रतिक्षणक्षुभितहृदः पयोमुचाम् ।
अपि क्षपामनुभवतः पदे निजे प्रजागरः परिणमति स्म वेधसः ॥ ६३ ॥
अचन्द्रमस्तपनमपेततारकं प्रशान्तपावकमवसन्नमारुतम् ।
अकालदिग्भुबनमसच्छुभाशुभं तमोमयं पयसि ममज्ज तज्जगत् ॥ ६४ ॥
यदण्डतो बहिरबहिश्च यज्जलं तदेकतां गतमिव सर्वतस्तदा ।
अगाधमप्रचलमपारमस्वनं प्रवृद्धमा ध्रुवपदमारसातलम् ॥ ६५ ॥
जडाजडे जगति गते रसातलक्षमानभस्सुरनरतिर्यगात्मनि ।
जलास्तरे वटदलतल्पमाश्रितो जगन्निधिहरत कोऽपि बालकः ॥ ६६ ॥
समन्ततो जगति समावृतेऽम्भसाप्यमज्जति प्रियकवने निजाज्ञया ।
स बुह्णुदोदर इव सार्धमम्बया समं गणैरपि विजहार शङ्करः ॥ ६७ ॥
चतुर्मुखे स्वपति विलुप्तसङ्कथे चराचरे विरमति कालकल्पने ।
अनुश्रवैः परमधिगम्य तुष्टुवुर्महर्षयः कतिचन तं महीं गतम् ॥ ६८ ॥
जलप्लवैर्बहिरबहिश्च धूर्जटेर्जटाटवीहिमकरचन्द्रिकाङ्कुरैः ।
जडीकृते सति मधुरेश्वरालये जगुर्गणा जहसुरनर्त्तिषुः सुखम् : १९ ॥
परिक्षये प्रलयनिशस्ततश्चिरात् पयोजभूः सलिलशयस्य शार्ङ्गिणः ।
निदेशतो निखिलमिदं जगत्तूयं यथापुरं पुनरसृजत् प्रयत्नतः ॥ ७० ॥
प्रकल्पयन् प्रथममहर्निशाकरौ प्रणाशयन् कबलितविष्टपं तमः ।
विशोषयन् सलिलमशेषमुत्थितं विनिर्ममे विधिरमरालयं पुनः ॥ ७१ ॥