पृष्ठम्:शिवलीलार्णवः.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
शिवलीलार्णवे


विषानलव्यतिकरशोषितान्तरद्रवत्स्फुटद्द्दृढतरसन्धिबन्धनाः ।
शिलोच्चया अपि हि रजश्छटात्मना दिशंदिशं पत्रनवशेन निन्थिरे ॥ ४६ ॥
प्रदीपिता इव पवनेन ताडिताः प्रतिक्षणावसितपुनस्समुद्गताः ।
प्रजज्वलुः कथमपि चण्डरश्मयः पदे पदे स्खलितरथा वियत्पथे ॥ ४७ ॥
पयः किल प्रतिहतकल्मषं सुधेत्युदारहन्त्युदकरहस्यकोविदाः ।
पयःकथामपि पवनेन लुम्पता सुधान्धसोऽप्यजहुरसून् गतान्धसः ॥ ४८ ॥
प्रसर्पता धरणितलाद्रसातलं महोष्मणा युगविगमाहिमत्विषाम् ।
प्रतापिताः पुनरशनातिमात्रयाप्यसूनहो जहुरहयो महानिलैः ॥ ४९ ॥
अधस्पदे कमठवराहभोगिनामवस्थितस्तदनु ललाटलोचनः ।
किमेतदित्युपरि दृशं द्वयाधिकामवाकिरद् दरदलितामवज्ञया ॥ ५० ॥
ततोऽग्निना कमलभवाण्डमूलभूनिविष्टधूर्जटिनिटिलाक्षेजन्मना ।
चटच्चटच्चटदिति भूर्भुवस्स्वरित्यदह्यत त्रिजगदपि प्रसह्य तत् ॥ ५१ ॥
उदन्वतामुदरतलेषु शोषिताम्तदीरिता लवणमया महाद्रयः ।
समन्ततः सदसि विधातुरुद्ययुर्महोपला इव युधि यन्त्रनिस्सृताः ॥ ५२ ॥
नभस्स्वतामजनि विवस्वतामपि क्षणादहो भसितदशा तदर्चिषा ।
बलीयसामपि बलिभिर्ध्रुवः क्षयः परं त्वसौ भवति कियद्विलम्बितः ॥ ५३॥
तदर्चिषा गिरिशिखरस्फुलिङ्गया जना महःप्रभृतिषु जातसञ्ज्वराः ।
चिरायुषः सनकसनन्दनादयः प्रदुद्रुवुः पदमकुतोभयं विधेः ॥ ५४ ॥
अवस्थिताः प्रियकवने युगात्ययेऽप्यविक्रिया मदनजितः प्रभावतः ।
विशङ्कटे कनकसरोजिनीतटे विशृङ्खलाः प्रमथगणा विजह्रिरे ॥ ५५ ॥
कपर्दिनस्तदनु कपर्दमण्डलात् समुद्रता नभसि घना घनाघनाः ।
नजृम्भिरे जगदखिलं हविर्भुजा परिश्रितं प्रशमयितुं समन्ततः ॥ १६ ॥
कणानपां करिकलभानिव च्युतान् पटत्पटद्ध्वनिमुखरान् पयोमुचाम् ।
प्रसारगन्निव रसनां शिखाच्छलात् पपो शनैस्सिमिसिमिति क्षयानलः ॥ ५७ ॥
पयःकणप्रशमितकल्पपावकप्रसृत्वरप्रतिनवधूममण्डलैः ।
समन्ततः पुनरपि सान्द्रतां गता वलाहका ववृषुरपो निरन्तरम् ॥ १८ ॥