पृष्ठम्:शिवलीलार्णवः.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३५
एकोनविंशः सर्गः ।


परित्यजन्नपि पललं झटित्ययं प्रवर्त्तनात् क्षणमपथे कृतव्यथः ।
असूनपि व्ययितुमियेष दुस्त्यजानहो सतां प्रकृतिरपत्रपिप्णुता ॥ ३३ ॥
स रक्षितुं बकमकरोद्यथापुरं सरस्तदुल्लसितमृणालपल्लवम् ।
तदादि चाकृत तपनीयपद्मिनीं विवर्जितां कियदपि यादसां गणैः ॥ ३४ ॥
स खञ्जनः स च बकशाबकः प्रभोरनुग्रहात् परममवापतुः पदम् ।
द्विजे द्विजो यदि दयते क्षमं हि तद् द्विजो ह्ययं विबुधगणेषु गीयते ॥ ३५ ॥
दिवं गते सुगुणनृपे दयानिधावुपर्युपर्युपचितसद्गुणोत्तराः ।
तदन्वये धरणिभुजो महारथाः परश्शता धरणिमिमामपालयन् ॥ ३६ ॥
युगे युगे कुलमुदितोदितं हि तत् प्रवर्त्तितं प्रथममनङ्गवैरिणा ।
प्रियङ्करं प्रियकवनीपतेरभूदभग्नमादिवस परिक्षयं विधेः ॥ ३७ ॥
उपस्थिते युगविगमे पृथग्विधाः समुद्गता दिशि दिशि धूमकेतवः ।
अरुद्ध च द्युमणिमहर्मुखे सढ़ा कबन्धवत् किमपि निरन्तरं तमः ॥ ३८ ॥
समन्ततोऽजनि शतवार्षिक: क्षिताववग्रहः स्वयमनवग्रहस्ततः ।
चतुर्विधं जनुरपि भूतसंसदां विलुप्यते जगति निरन्वयं यथा ॥ ३९ ॥
विवस्वतो विदधति सप्त रश्मयो जगत्सु ये जलतुहिनाभिवर्षणम् ।
समेऽपि ते तपनतया पृथक्पृथक् प्रतापने प्रववृतिरे समन्ततः ॥ ४० ॥
द्रवीकृतैः प्रथममथोपशोषितैः स्थलीकृतैर्हिमशिखरैः समन्ततः ।
हिमालयो मृदुपलमात्रशेषितो विदिद्युते भुवि किल वेत्रदण्डवत् ॥ ४१ ॥
प्रतापिताः प्रथममबिन्धनाग्निना विशोषितास्तदनु करैर्विवस्वताम् ।
उपर्यधः क्वथितजलौघपाचितैस्तिमिङ्गलैर्जलनिधयः कषायिताः ॥ ४२ ॥
विशोषिताम्भसि विधुमण्डले तदा विसृत्वरा अपि किरणा विवस्वतः ।
खरातपा निशि परिणम्य चन्द्रिका प्रवर्त्तनप्रतिहतशक्तयोऽदहन् ॥ ४३ ॥
पराकृतद्रुमतृणगुल्मसङ्कथे पयोधरस्मृतिविधुरे युगात्यये ।
अपि त्रिवृत्करणपथोपपादितं पयः क्षितावजनि कथावशेषितम् ॥ ४४ ॥
फर्णाशितुर्वदनसहस्रानिस्सृता विषानलोद्वमनविशेषभीषणाः ।
समीरणाः सरभसताडितस्खलत्परस्परा ववुरपरस्परास्ततः ॥ ४५ ॥


१. त्रिवृत्करणं तेजोबन्नानां त्र्यात्मकत्वकरणम् उपनिषत्प्रसिद्धम्.