पृष्ठम्:शिवलीलार्णवः.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३४
शिवलीलार्णवे


अनुज्ञया तदनु कदापि धूर्जटेरवस्थितानचलगुहासु तान् नृपः ।
समानयन् सचिवपदे न्यवेशयद् वचस्विनो नरपतितन्त्रकोविदान् ॥ २० ॥
सभाजिता नृपतिवरेण सर्वथा चिरायुषो द्विसमधिका दशापि ते ।
शिवाश्रमव्यतिकरधूतकल्मषाः शिवं ययुः प्रणतशिवङ्करं ततः ॥ २१ ॥
ततो गते पितरि पदं महेशितुस्तदात्मजः सुगुणनृपालशेखरः ।
अपालयच्चिरमवनीं ससागरामचञ्चलामकृत च भक्तिमीश्वरे ॥ २२ ॥
बहिर्भ्रमन् क्षुदुपशमाय सर्वदा बलीयसा करटकुलेन ताडितः ।
अचञ्चलं चरणयुगं शिवस्य कोऽप्यकिञ्चनः शरणयति स्म खञ्जनः ॥ २३ ॥
विहङ्गमः करटभिया शिवालये निलीय स वचन विटङ्कसीमनि ।
सकृत् पतन् कनकसरोजिनीपयम्युपोषितः कतिचिदुवास वासरान् ॥ २४ ॥
जुहाव किं किमयमयष्ट किं ददौ जजाप किं मलिनतनुर्विहङ्गमः ।
तपस्तदप्यजनि तदस्य चेष्टितं परन्तपप्रपदनतः किमन्ततः ॥ २५ ॥
स मृत्युभीशमनमनूपदेशतो वलीयमामपि वलिनं चकार तम् ।
बलान्यमी किल बलवत्सु विश्रुता. प्रसादशीकर परमाणवोऽस्य ये ॥ २६ ॥
स सर्वमध्यकुरुत पक्षिमण्डलं परिग्रहात् प्रमथपतेर्विहङ्गमः ।
तदादि खल्विदमधुनापि लक्ष्यते तदन्वये विहगकुलाधिकं बलम् ॥ २७ ॥
ततस्ततः सरसि निरीक्ष्य यादसां परम्परप्रतिहतिपातकं बकः ।
निवृत्तजात्युचितविचेष्टितः स कोऽप्यगाहत प्रियकवनं कदाचन ॥ २८ ॥
विगाहते कनकसरोजिनीजले विलोकते न तु शफरान् दृशापि सः ।
बिभर्त्ति तु स्वकमुदरं बिसाकुरैः प्रदक्षिणं भ्रमति सदा च शूलिनः ॥ २९ ॥
इति व्रतं दृढतरमेष धारयन्नुपास्त तं त्रिपुरहरं यदा चिरम् ।
तदा स्वयं तरुणशशाङ्कमौलिना सरः कृतं विगतसरोजसङ्कथम् ॥ ३० ॥
स वल्गतो नवनवनीत कोमलान् समर्पितः शफरशिशून् विलोकयन् ।
क्षुधा किल क्षुभितमना मनागिव प्रचक्रमे पिशितपरिग्रहक्रमे ॥ ३१ ॥
समुत्प्लुतं वदनपुटे स्वयं ततः शरारिरादित शफरार्भकं यदा |
तदा झटित्यवबुबुधे व्रतक्षतिं विवेकिषु प्रभवति किं चिरं तमः ॥ ३२ ॥