पृष्ठम्:शिवलीलार्णवः.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३३
एकोनविंशः सर्गः ।


वृथा मयन् विपिनचरान् शराहतान् विषादमावहत यमन्तरन्तकः ।
स· तस्य तं महिषगणान् निपातयन्नपाहरद् वनभुवि वाहनार्पणात् ॥ ७ ॥
गणंगणं चमरवराहगण्डकान् वृकानपि क्षपयति तत्र पार्थिवे ।
किटिर्झटित्युपनिपपात कश्चन क्रुधा ज्वलन्नचलगुहागृहात् ततः ॥ ८ ॥
स दंष्ट्रया कुलिशनिशातधारया परिक्षिपन् शबरभटानितस्ततः
गणं शुनामविगणयन् पदेपदे धरापतेस्तुरगसमीपमापतत् ॥ ९ ॥
अवस्थितं धुरि तमवेक्ष्य पार्थिवः स सन्दधे धनुषि न यावदाशुगम् ।
स तावदुच्चलित विषाणकोणतो व्यदारयच्चरणतले तुरङ्गमम् ॥ १० ॥
अवप्लुतः सपदि तुरङ्गमात् ततः पतिः क्षिते रथमधिरुह्य तं पुरः
अवाकिरज्ज्वलितमुखैः शिलीमुखैर्धराधरं जलद इवाम्बुवृष्टिभिः ॥ ११ ॥
स तद्धनुर्बलयविनिस्सृतैः शरैः समाचितः शललगणैरिवाभितः ।
अचूर्णयन्मुखमसकृद् विधूर्णयन् ससारथिं सतुरगमम्य तं रथम् ॥ १२ ॥
ततः प्लुतः सपदि रथान्महारथस्तमुद्धतं गिरिमिव जङ्गमं किटिम् ।
अनुद्रुतं प्रियतमया नृपो रयादपातयत् स भुवि कृपाणपाटितम् ॥ १३ ॥
ततः प्रभृत्यजनि वराहशैल इत्यभिख्यया धरणिधरः स विश्रुतः ।
उपत्यकामुपरुरुधे स यस्य तां पतन् किटिः पृथुरिव पादपर्वतः ॥ १४ ॥
गते पुरं धरणिपतौ सविस्मये क्षुधार्दितास्तदनु वराहपोतकाः ।
प्रसूस्तनप्रणयकृतातिकूजिता दशापतन् द्विसमधिकाम्तदावशाः ॥ १५ ॥
तपस्विनामवनकृते तपस्यतां गिरेस्तटे कृतरतिरत्र शङ्करः ।
. कृपालयः किटिपृथुकानपालयत् स तत्प्रसूतनुरमितैः स्तनामृतैः ॥ १६ ॥
पुरा युगे वृषलकुमारका हि ते तदाश्रिताः शमधनशापतो वपुः ।
समुद्घृताः पुरमथनस्तनामृतैः क्षणाद् दधुः किटिवदना मनुष्यताम् ॥ १७ ॥
कलासु ते दधुरखिलासु कौशलं विशिष्य च क्षितिपतित दुषीम् ।
न सूकरः शिवचरणे कृताशयः स सूकरः पुरभिदि यः पराङ्मुखः ॥ १८ ॥
बराहताभरणविलासवासनावशादिव श्रुतेशतमौलिलालितम् ।
विमार्गितुं चरणयुगं पुराद्वेषः कुतूहलं सततममी वितेनिरे ॥ १९ ॥

१. विषाणं वराहदन्तः.