पृष्ठम्:शिवलीलार्णवः.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
शिवलीलार्णवे


जयभनयोर्विदितयोर्विपर्ययादपि तत्र नीपवनभर्त्तुराज्ञया ।
विजिता नवैव विजितं तु भद्रयेत्यगदीदभीक्ष्णमवशो महीपतिः ॥ ७८ ॥
अवलम्ब्य दास्यमथ सिंहलागता सदसि स्वयं परिचचार भद्रिकाम् ।
स च पार्थिवः कनकभूषणाम्बरैर्विविधैरपूजयत विस्मयेन ताम् ॥ ७९ ॥
इति राजराजधरणीपतेः क्षितिं परिरक्षतः प्रणिहितेन चेतसा ।
विनयो विवेकत इवातिविश्रुतस्तनयोऽभवत् सुगुण इत्यभिख्यया ॥ ८० ॥

तारुण्य एव विनयावनतं कुमारं
तं राजराजनृपतिः सकलागमज्ञम् ।
पश्यन्नखण्डितपराक्रममभ्यषिञ्चत्
सम्प्रार्थितः प्रकृतिभिः किल यौवराज्ये ॥ ८१ ॥

इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते

शिवलीलार्णवेऽष्टादशः सर्गः ।

अथैकोनविंशः सर्गः ।

तनूभवे वहति ततो वसुन्धरां चिरादसौ नृपतिरुपेत्य विश्रमम् ।
वनेचरैः सह मृगयाकुतूहली वनंवन व्यचरदधिज्यकार्मुकः ॥ १ ॥
परिभ्रमच्छ्रगणविकृष्टशृङ्खलावलीघनध्वनिजनितप्रबोधनाः ।
ततस्ततस्तरुतलकुञ्जपुञ्जतो विनिर्ययुर्विवृतमुखा मृगादनाः ॥ २ ॥
पुनः पुनः परिपततः शुन: क्रुधा जिघृक्षवः खरनखरास्तरक्षवः |
प्रचक्रमुः किमपि यदा तदा शरैर्निरन्तरानकृततरामिमान् नृपः
स्तनग्रहग्रहिलतया निरुन्धतस्तनन्धयान् सपदि विलङ्घय सम्प्लुता ।
मृगी मृगं क्षितिपतिपाणिगोचरादपालयत् स्वयमभिपेतुषी पुरः ॥ ४ ॥
स्वसायकादपि चललक्ष्यपातिनः स्वयं पुरः परिचलता महीभृता ।
अरुध्यत प्रथममविध्यत त्वथ त्वरोच्चलत्तुरगखुरक्षता मृगी ॥ ५ ॥
सटासु तच्छबरभटावलम्बितः प्रकम्पितुं किमपि न चक्षमे स्वतः ।
अवैक्षत भ्रुकुटिविटङ्कभीमया दृशा पुनस्तदपि मृगान् मृगाधिपः ॥ ६ ॥