पृष्ठम्:शिवलीलार्णवः.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३१
अष्टादशः सर्गः ।


अथ राजराज इति दिक्षु विश्रुतं तनयं बहुश्रुतमसावविन्दत ।
तप्नसा प्रसाद्य तरुणेन्दुशेखरं मलयध्वजान्वयमहानिधिं नृपः ॥ ६५॥
अवरोप्य भारमखिलं भुवः सुते लघुरुत्पतन् वरगुणः शिवान्तिकम् ।
अवनीभृतः पुनरधात् फणाधरानियमस्य भूभरणवासनेदृशी ॥ ६६ ।।
उदितोदितं विविधया सपर्यया भजतां स्वमेव भुवि पाण्ड्यभूभुजाम् ।
अपवर्गमेकविधमर्पयन्नयं मधुरेश्वरोऽपि महतीं ह्रियं दधे ॥ ६७ ॥
अथ राजराज लब्धमाख्यया पुरभित्सखत्वमतिशय्य वर्त्तितुम् ।
पितरौ गुरुं सुहृदमात्मनः प्रभुं कुलदैवतं च कुरुते स्म तं नृपः ॥ ६८ ॥
निममज्ज तस्य हृदयं निसर्गतः शफरेक्षणासहचराङ्घ्रिपद्मयोः ।
कुलशेखरान्वयभुवां शिवव्रते कुत एष कारणगवेषणश्रमः ॥ ३९ ॥
अथ भद्रनामनि चिराय गायके शिवलोकमेयुषि तदीयगेहिनी ।
चतुरा ततोऽपि किल गानविद्यया शिवमारराध समयेषु षट्स्वपि ॥ ७० ॥
अवरोधगहमधिजग्मुषी विभोरवनीपतेर्दयितया कयाचन ।
कलहायते स्म निजगानविद्यया दृढया महेशदयया च जातु सा ॥ ७१ ॥
तदुपक्रमं धरणिवल्लभोऽपि तामवमन्तुमाहितकुतूहलश्चिरात् ।
स्वयमानिनाय जलराशिमध्यतः सुदृशं स काञ्चिदथ गानकोविदाम् ॥ ७२ ||
जगतुस्ततः सदसि ते महीपतेरधिकेत्यगृह्यत तु तत्र नूतना ।
मनसाधिगम्य मधुरेश्वरं शुचा भणति स्म भद्रगृहिणी पुनर्नृपम् ॥ ७३ ॥
सदसि स्थिता मयि चिरादमर्षिणो यदि किञ्चिदाहुरिह किं ततः क्षतम् ।
अभिगम्य सन्निधिमनङ्गशासितुः कथयन्त्वमी तरतमत्वमावयोः ॥ ७४ ॥
विजयेत या भवतु सात्र भट्टिनी विजिता तु मा भवतु सात्र किङ्करा ।
इति सा यदाह तदनिच्छतोऽप्य भूदभिनन्दनीयमवनीभुजस्तदा ॥ ७५ ॥
अथ ते समेत्य सविधं महेशितुः सह पार्थिवेन सदसि स्थितैरपि ।
जगतुर्गिरा मधुरयादितस्ततः परिवादिनीमुरलिकाविपञ्चिभि. ॥ ७६ ।।
अधिका तु यद्यपि नवैव तत्त्वतस्तदपि प्रपन्नजनपक्षपातिनः ।
मधुरेश्वरस्य किल मायया वृता बहुधा समस्तुवत भद्रगेहिनीम् ॥ ७७ ॥


१. शिवसायुज्यप्राप्त्या शेषादिनागभूषणोऽभवदिति तात्पर्यम्.