पृष्ठम्:शिवलीलार्णवः.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
शिवलीलार्णवे


स ददौ समस्तमपि तन्महेश्वरे विततार यद् वरगुणोऽस्य पार्थिवः ।
अपि सञ्चितं वसु दिशन् शिवाश्रमिप्वधनो बभूव बहुधार्जयन्नपि ॥ १२ ॥
कविगायकाभिमतकल्पशाखिनः सविधे कदाचिदथ चेरभूपतेः ।
प्रवितीर्य पुत्रमपि भक्तमात्मनः प्रजिघाय भद्रमभृतांशुशेखरः ॥ ५३ ॥
स्वपने पुरैव स च तत्समागमं प्रतिबोधितः पुरहरेण पार्थिवः ।
अभिगम्य भद्रममितैर्विभूषणद्रावणाम्बरैः सपदि पर्यपूजयत् ॥ ५४ ॥
इति कन्दलत्यहरहर्दयारसे शफरेक्षणासहचरस्य गायके |
भवति स्म भक्तिरपि तस्य तावती चरमं शरीरमधितष्ठुषस्तदा ॥ ५५ ॥
उषसि प्रगे तदनु सङ्गवे ततो दिनमध्यगे दिनमणौ निशामुखे ।
रजनीदले च नियमादसेवत प्रमथाधिनाथमुपवीणयन्नयम् ॥ ५६ ॥
समयेषु षट्सु नियमेन यज्जगौ स बहिर्वृषात् स्वयमनावृते वसन् ।
द्रढिमानमस्य नियमे परीक्षितुं जलदानचोदयत वृष्टये हरः ॥ ५७ ॥
स्तनितारवैर्बधिर तामगुर्दिशस्तटितां त्विषा तनुभृतां हृता दृशः ।
अपतन् क्षितावशनयः पदे पदे तिमिरं निरन्तरमरुद्ध रोदसी ॥ ५८ ॥
जगदास्त बद्धमिव जातसाध्वसं समये यदा स तु तदैव गायकः ।
अवगाह्य हेमकमलाकरे शनैरभिगम्य सन्निधिमगायदैश्वरम् ॥ ५९ ॥
अथ मेघरञ्जिमहिरञ्जिमुख्यतन्मृदुगानसंवलितरागवैभवात् ।
द्रवतां प्रपन्नमिव भूनभोन्तरं ददृशे तदा जलधरैर्निशात्यये ॥ ६० ॥
करकोपलैर्विघटिता विपञ्चिका करजा न तस्य वशवर्त्तिनोऽभवन् ।
अपि कम्पमानवपुरप्रकम्पिनीमवलम्व्य भक्तिमयमुज्जगौ पुनः ॥ ६१ ॥
घनकर्दमद्भवनिमग्नमग्रतश्चरणद्वयं चलयितुं च नाशकत् ।
स यदा तदास्य विपुलं समुन्नतं स्वयमुद्रभूव मणिचित्रमासनम् ॥ ६२ ॥
स निविश्य तत्र शिवसक्तया दृशा निरवर्त्तयन्नियममत्वरो यदा ।
विरतं घनैर्विमलमम्बरं बभौ विललास दिक्षु च तदैव कौसुदी ॥ ६३ ॥
फलकं तदद्भुतमवेक्ष्य पार्थिवः प्रणिपत्य भद्रमसकृत् प्रशस्य च ।
शिवलिङ्गतोऽपि शिवयोगिषु स्थिरां शिवभावनामकृत तत्प्रभृत्ययम् ॥ ६४ ॥