पृष्ठम्:शिवलीलार्णवः.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२९
अष्टादशः सर्गः ।


स तथेति कार्यमवधार्य निस्सरन्नपदिश्य चोळनरपालविग्रहम् ।
शिवमर्जुनेशमभिवन्द्य तत्क्षणादभवन्निवृत्तकलुषो महीपतिः ॥ ३९ ॥
स पुनः समेत्य नगरीमकल्मषः फणिवक्रमुक्त इव पार्विको विधुः ।
प्रशशास वासव इव त्रिविष्टपं वसुधेश्वरो वरगुणः क्षमातलम् ॥ ४० ॥
अथ भद्र इत्यभिमतः क्षमापतेरतिविश्रुतश्च भुवि गायकाग्रणीः ।
उपवीणयन्ननिशमुत्पलप्रियं चिरमास्त कश्चन कदम्बकानने ॥ ४१ ॥
अथ तं विजेतुमपरस्तु गायकः प्रथयन् यशो बिरुदडिण्डिमस्वनैः ।
नृपतिं ददर्श स यदा तदा शिवः स्वयमेव भक्तमवितुं मनो दधे ॥ ४२ ॥
स निधाय मूर्ध्नि शशिखण्डमण्डने मुमहान्तमिन्धनभरं नराकृतिः ।
दिवसावसानसमयावधि भ्रमन् परितश्चचार मधुरापुरे हरः ॥ ४३ ॥
इदमिन्धनं धनमिवाहृतं चिरादतिशुष्क मव्रणमकण्टकं गुरु ।
क्षममस्य मूल्यमुपकल्प्य गृह्यतामिति घोषयन् परिचचार शङ्करः ॥ ४४ ॥
उपगायतोऽस्य पथि गानवैभवादुपजातपल्लवतयाति कोमलम् ।
अपि मस्तकस्थसरिदम्भसार्दितं न तदिन्धनं जगृहिरे पुरौकसः ॥ ४५ ॥
चरतोऽस्य तत्र नगरे ततस्ततश्चरणाब्जविन्यसनभावितं रजः ।
चतुराननप्रभृतिभिः समं सुरैः प्रणिपत्य सञ्जगृहिरे महर्षयः ॥ ४६ ॥
करयुग्मसङ्गमितभारमन्थरं घटितश्रमाम्बुकणमस्य वीथिषु ।
क्रयवादनादजितकोकिलारवं गतमागतं च न गतं ममाशयात् ॥ ४७ ॥
अथ काष्ठभारमवरोप्य दुर्भरं स बहिर्गृहादभिनवस्य गायतः ।
उपविश्य वीतभरणश्रमः शनैरुपगायति स्म मधुरं यदृच्छया ॥ ४८ ॥
अथ षाडवौडवविभेदि सर्वमप्यवलम्ब्य रागकुलमस्तसङ्करम् ।
स जगावनुल्लिखिततानधोरणीमधुरं ह्रिये हृदि भिये च गायताम् ॥ ४९ ॥
अथ विस्मयादभिनवस्य गायतो गुरुसम्प्रदायमभिगम्य पृच्छत :
स जगाद भद्रसदने गतागतैरदसीयगीतिगुणरीतिमाहृतम् ॥ ५० ॥
तदुदीरितश्रवणलब्धसाध्वसे प्रपलायिते सपदि तत्र गायके ।
उप *गम्य भद्रमुचितैर्विभूषणैर्बहुमन्यते स्म नृपतिर्धनैरपि ॥ ५१ ॥


१. षाडवः षट्स्वरो रागः । औडवस्तु पञ्चस्वरः.

  • 'चर्य' इति खपुस्तके पाठः.