पृष्ठम्:शिवलीलार्णवः.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
शिवलीलार्णवे


अधियुद्धरङ्गमसवस्तृणीकृताः शिवपादशेखरवरूथिनीभटैः ।
इति किं प्रतीक्ष्य रुषिताखिलं तृणं पृतना चचर्व पथि चोलभूभृतः ॥ २६ ॥
अथ मुक्तकेशमपथेन विद्रवन् सरसि क्वचित् सतुरगः ससैनिकः ।
निममज्ज चोलनृपतिर्न्निमज्जयन्नखिलं कुलं स्वमयशःपयोनिधौ ॥ २७ ॥
अतुलानि हेममणिभूषणाम्बराण्युपहृत्य तस्य कटकान्महीपतिः ।
अखिलानि तान्युपददे महाशयो हरिणाङ्कचूडचरणारविन्दयोः ॥ २८ ॥
अथ भक्तसौम्य कश्चिदर्चयन्ननिशान्नदाननियमेन शङ्करम् ।
अनुवर्तयन् व्रतमृणार्णधारयाप्यवसीदति स्म विधनः स सर्वथा ॥ २९ ॥
व्रतभङ्गखेदविवशं तमग्रतः पतितं जिहासुमपि दुर्लभानसून् ।
प्रतिपाद्य तण्डुलनिधानमक्षयं परिरक्षति स्म मधुरेश्वरो हरः ॥ ३० ॥
अथ कश्चिदर्थपतिरित्यभिख्यया विदितो विशामधिपतिः पुरे वसन् ।
असुतो धनानि भगिनीसुते दिशन् दशमी जगाम तपसे वनाश्रमम् ॥ ३१ ॥
अखिलं धनं तदपहर्तुमिच्छवो भगिनीसुते विनिहितं सनाभयः ।
पृथुकं यदा तमधिकं बबाधिरे शरणं ययौ स मधुरेश्वरं तदा ॥ ३२ ॥
अथ तस्य मातुलवपुः परो भवन्नभिजित्य तान् नृपसभे विरोधिनः ।
सहसा यदा पुरहरस्तिरोदधे सकलैस्तदा सदसिं विस्मितं जनैः ॥ ३३ ॥
तनयं ततो वरगुणं तपोबलाच्छिवभक्तमेत्य शिवपादशेखरः ।
अखिलं महविलयमर्पयन् सुते शफरेक्षणाचरणयोरलीयत |॥ ३४ ॥
स कदाचिदेत्य मृगयां परापतन् शयितं क्वचिद् द्रुमतले पथि द्विजम् ।
निहतं तुरङ्गखुरघट्टनैर्विदन् बिभयाम्बभूव जगृहे च हत्यया ॥ ३५ ॥
वसुधेश्वरो वरगुणोऽथ दुःखितः सकलं निनाय सचिवेषु भूभरम् ।
जपदानहोमविधिभिर्जगत्पतिं सततं यजन्नपि न शान्तिमाप सः ॥ ३६ ॥
अशृणोत् स वाचमशरीरिणीं ततः करुणालयस्य हरिणाङ्कधारिणः ।
मधुराकृतस्य हि महत्त्वमंहसः सुकृतस्य वा न पथि वर्तते गिराम् ॥ ३७ ॥
मम लिङ्गमर्जुनवरोरधस्तले महदस्ति सद्यतनयातटे शुभे ।
तदुपासनेन तव तात ! दुष्कृतं सकलं प्रयाति विलयं क्षणादिति ॥ ३८ ॥