पृष्ठम्:शिवलीलार्णवः.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२७
अष्टादशः सर्गः ।


निशित्तेषु तत्र निपतत्सु सायकेष्वभितो भयादतिविदूरवर्त्तिनः ।
निहतान् हयद्विपभटान् निनीषवो मुहुराह्वयन् यमभटाः प्रसान्त्वनैः ॥ १३ ॥
वपुरानिलं न पिशिताशनक्षमं यदि पार्थिवं शरशतैर्विभेत्स्यते ।
इदमुत्तरेम कथमर्थकृच्छ्रमित्यवलन्त दूरमभितः पिशाचिकाः ॥ १४ ॥
प्रथमं हता युधि दिवं समुद्गताः पुनरर्धवर्त्मनि शरैर्निपातिताः ।
पुनरुद्गता द्विगुणभागभाजिनः कतिचिद् भटा दिवि कृताः सुधाशनैः ॥ १५ ॥
अगृहीतशक्तिकतया मिथः कथास्ववबद्धमौनकृतहस्तचेष्टिताः ।
अमरस्त्रियो रणहताश्च तद्भटाः पशुवत् सुखं निखिलमप्यभुञ्जत ॥ १६ ॥
धवलातपत्रवलयाश्चकाशिरे रदनाश्च मत्तकरिणां निपातिताः ।
यशसो दिगन्तमभिपूरयिष्यतः प्रथमोद्गता रणतलेऽङ्कुरा इव ॥ १७ ॥
तुरगैः समं तुरगसादिनो हता दिवमुद्ययुः समधिरुह्य तान् पुनः ।
अतिसाहसेन दिवमभ्युपेयुषामपि वाह्यवाहकदशा न शाम्यति ॥ १८ ॥
अवभिद्य बिम्बमहिमद्युतेर्दिवं प्रति गच्छतां युधि भटाश्वदन्तिनाम् ।
गणनाममर्त्त्यगणका वितेनिरे चरमाङ्गसीम्नि निभृता विवस्वतः ॥ १९ ॥
शरपञ्जरस्थगितभूनभोन्तरे समाराङ्गणे घनतमस्समावृते |
अभिसारिकेव विजयेन्दिरा चरन्त्यवृणीत तं तमविशेषदर्शिनी ॥ २० ॥
बलयोर्द्वयोरपि मदोद्भटा भटा बहवस्तथा रणमुखे निपातिताः ।
सकलं यथाजनि पुरं शतक्रतोर्ह्रतदार मन्दिर विमानभूषणम् ॥ २१ ॥
हतशिष्टमल्पमवलोकयन् बलं प्रचचाल पाण्ड्यनृपतिर्यदा पुरः ।
तरसावपत्य हयसादिरूपतः पुरतश्चचाल पुरशासनस्तदा ॥ २२ ॥
परुषं रुषा परिरटन् करेण च भ्रमयन् युधि त्रिशिखमुन्मिषाच्छखम् ।
प्रचलन् पदानि कतिचित् पुराहितः शिथिलीचकार निखिलं बलं द्विजांभू ॥ २३ ॥
अपविद्धकुन्तलमचिन्तिताटवीसलिला नलप्रदरगर्त्तकण्टकम् ।
अनवेक्षितस्वजनमानशे दिशो बधिरान्धमूकमिव तद् बलं द्विषाम् ॥ २४ ॥
सह धावतो निजजनान् परभ्रमादभिगम्य केचिदभयं ययाचिरे ।
अपरे क्षताः स्म इति मूच्छिताः स्वयं क्षतजोक्षितान् पथि समीक्ष्य धावतः ॥