पृष्ठम्:शिवलीलार्णवः.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
शिवलीलार्णवे

अथाष्टादशः सर्गः ।


स हयान् सहस्रमयुतं भटोत्तमान् करिणः शतं दश महारथानपि ।
परिगृह्य सैन्यमुचितं व्ययं चरन्नवशिष्टमन्यदखिलं शिवे ददौ ॥ १ ॥
अथ धाम्नि पुष्पवननाम्नि धूर्जटेरविदूरवर्त्तिनि कदम्बकाननात् ।
अजनिष्ट कापि किल हेमनायिकेत्यभिविश्रुता जगति रुद्रकन्यका ॥ २ ॥
शिवभक्तपूजनपरा शिवव्रता शिवबिम्बमेकमखिलोत्सवोचितम् ।
परिकल्प्य सिक्थकमयं प्रचक्रमे परिशुद्धताम्रकणसञ्चयाय सा ॥ ३ ॥
अथ नाचिरादनुपलब्धसाधना दधती तमेव सुदृढं मनोरथम् ।
मधुरेशमेव धृतसिद्धविग्रहं मदिरेक्षणालभत भाग्यतोऽतिथिम् ॥ ४ ॥
प्रणिपत्य तं परिचरन्त्यनेकधा रससिद्धिदर्शनपरेण तेन सा ।
अनुकम्पिता सकलमायसं गृहे भसितेन तस्य नयति स्म हेमताम् ॥ ५ ॥
कृतविस्मयाथ गिरिशे तिरोहिते परिकल्प्य तां प्रतिकृतिं हिरण्मयीम् ।
अवलम्ब्य गण्डतलमङ्गुलीमुखैः परिचुम्बति स्म गणिकातिसुन्दरम् ॥ ६ ॥
अधुनापि तन्नखपदं यदीक्ष्यते विमले कपोलफलके महेशितुः ।
श्रमवारिलेशवति तत्र सङ्गतं शकलं विधोरिव जटापरिच्युतम् ॥ ७ ॥
अपि यन्महाक्रतुभिराप्तदक्षिणैरपि वा त्रयीपरिचयैरहर्निशम् ।
अनवाप्यमस्ति पदमैन्दुशेखरं तदवाप सा तदनुकम्पिता ततः ॥ ८ ॥
गजवाजियोधरथयूथभीषणां परिगृह्य चोलनृपतौ पताकिनीम् ।
अभिगच्छति स्वयमनन्यसाधनः शिवमारराध शिवपादशेखरः ॥ ९ ॥
तमुवाच वागथ नभस्समुद्भवा न बिभीहि तस्य महती चमूरिति ।
अभिषेणय त्वमरिमल्पसैनिको विजयस्तवैव भवितेति पार्थिवम् ॥ १० ॥
अथ पाण्ड्यमल्पबलमभ्ययात् बली सरितं समुद्र इव चोलपार्थिवः ।
नृपतिश्च निश्चलमतिर्व्यवस्थितः कलयन् पुरः कनकशैलकार्मुकम् ॥ ११ ॥
अथ युद्धमुद्धतमवर्धत क्षणाद् दृढरूढगूढतरवैरयोस्तयोः ।
असिपातपाटितपतन्मतङ्गजस्रवदस्रसिन्धुहृतसैन्धवव्रजम् ॥ १२ ॥


१. देवदासी.