पृष्ठम्:शिवलीलार्णवः.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२५
सप्तदशः सर्गः ।



असिकुन्तशूलपरशुच्छुरिकापरिघाभिघातविगलद्रुधिरम् । अविचारितस्वपरसैन्यमभूत् प्रथनं तदस्थिरजयापजयम् ॥ ७९ ॥ समरे भुजाभुजि कचाकचि च प्रहरद्वयं चलति तद्बलयोः । तदवक्षितुं गगनमध्यतलं रविरध्यरोहदतितुङ्गमिव ॥ ८० ॥ मधुमासपुष्पितपलाशवनप्रतिमं तुरङ्गखुरधूलिवृतम् । तदुदन्यया परुषयाभिहतं बलयोर्द्वयं सममभूद् विरतम् ॥ ८१ ॥ परिपूरितां शिशिरकुम्भशतैर्विपुलां प्रपां कचन पाण्ड्यबले । अधिरुह्य मौलिसरिदम्बुभरैस्तृषितानतर्पयत भूतपतिः ॥ ८२ ॥ करुणामृतेन मधुराधिपतेर्मधुरैश्च मौलितटिनीसलिलैः । परिपोषिताः सपदि पाण्ड्यभटाः पुनराहवाय मतिमादधिरे ॥ ८३ ॥ अथ सिंहनादमुखरा युगपन्नृपतेर्भटाः परिनिपत्य रणे । सह राजसिंहधरणीपतिना जगृहुः करे सपदि चोलनृपम् ॥ ८४ ॥ जयं समासाद्य निवर्तमानः प्रपां पुनः क्वाप्यनवेक्षमाणः । राजेन्द्रपाण्ड्यो मधुरेश्वरस्य लीलायितं तत् कलयाम्बभूव ।। ८५ ॥ सख्यं प्रदाय मधुरेश्वरभक्तियोगात् सत्कृत्य चोलनृपतिं विससर्ज पाण्ड्यः । तं राजसिंहमपि दुर्मदमुन्मदिष्णुं भ्रातेति जातकरुणो बिभराम्बभूव ॥ ८६ ॥ अम्भोभिः केवलैरप्यवनिपतिचमूं तर्पयन् जातु तप्तां
ख्यातिं धत्ते यदीशः कियदिव न यशो नित्यमन्नप्रदायाः । देव्या मीनेक्षणाया इति नगरजुषामद्भृतान् भक्तिवादान् शृण्वन् राजेन्द्रपाण्ड्यः सकलमपि महीचक्रमेकः शशास ॥ ८७ ॥ ततो राजेशपाण्ड्योऽभूद्राजगम्भीर इत्यतः । पुरुहूतजिदप्यस्मादस्मादासीत् कुलध्वजः ॥ ८८॥ सुन्दरेशप्रसादेन सुन्दरेशाघिशेखरः । ततो जज्ञे यतो जज्ञे तारेन्दुविमलं यशः ॥ ८९ ॥

इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते

शिवलीलार्णवे सप्तदशः सर्गः।