पृष्ठम्:शिवलीलार्णवः.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
शिवलीलार्णवे


अनवग्रहैरपरदिक्पवनैः समुदस्यमानमपदिश्य रजः |
सलिलाशया मरुमरीचिषु किं धरणी दिगन्तमगमत् तृषिता ॥ १६ ॥
अतिचण्डपश्चिमसमीरहृतैरभितोऽपि तिग्ममहसः किरणैः ।
अनुषञ्जिता इव वनावलयो दवसङ्गता दहशिरे शतशः ॥ ६७ ॥
सरसीषु पल्वलदशा ददृशे भुवि पल्वलेष्वपि च शाडुलता ।
अपि शाडुलेषु चिरजाङ्गलता परतो वयं न वदितुं प्रभवः ।। ६८ ।।
पवनेन संवलित एव शिखी परिजृम्भते न परथेत्ययशः ।
परिमार्ष्टुमेव पवने विरमत्यदहद् वनं वनमहो दहनः ६९ ॥
क्वथितं जलं क्षितितलं ज्वलितं मरुतश्च मुर्मुरकिरः परितः ।
गगनं च दुर्विषहमर्ककरैरिति पर्यणस्त जगदग्निमयम् ॥ ७० ॥
अपनीय कञ्चुकमहर्निरमे मरुदाशया रहसि मुग्धवधूः ।
समवस्थिताः समुपलभ्य हठात् परिरेभिरे सुकृतिनस्तरुणाः ॥ ७१ ॥
रजनीमुखाहृतमृणाललतावलयैः शशाङ्ककिरणस्त्रपितैः ।
उषसि स्वयं प्रियतमोपहृतैः सरसीप्ववर्तयत चक्रगणः ॥ ७२ ॥
इयतापि तावदिदमापतितं प्रलयं तरेम पयसेति दृढम् ।
अवगत्य यत्र शफरैरुषितं लुलितं सरस्तदपदे महिषैः ॥ ७३ ॥
अवगाह्य पद्ममकरन्दझरीप्वहिमतावनुदिते भ्रमराः ।
अजपन्नुपांशु कृतझङ्करणा मदनापमृत्युहरमन्त्रमिव ॥ ७४ ॥
धृतमल्लिकाकुसुमहारलता घनसारचन्दनरसार्द्रकुचाः |
वनिता दुकूलवसनाभरणास्तरुणानुपासत दिनापगमे ॥ ७५ ॥
कटकं प्रविष्टवति चण्डकरे कटकं तदव्यथत चोळपतेः ।
ववृधे तु पाण्ड्यनृपतेः समये महसां निधेरिव महः परुषम् ॥ ७६ ॥
अथ सुन्दरेशमभिवन्द्य नृपः कलयन् प्रसादबलमस्य बलम् ।
निरगाद्यथोपनतसैन्यवृतो नगरादरातिविजयाय तदा ॥ ७७ ॥
चिरसम्प्ररूढदृढमत्सरयोरजनिष्ट जन्यमथ तत्र तयोः ।
अपि विस्मयात्र हृदि यद् द्युसदामपि नारदस्य यदलम्मतये ॥ ७८ ॥