पृष्ठम्:शिवलीलार्णवः.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२३
सप्तदशः सर्गः ।


अपदानमेतदधिगत्य नृपः सकलं गिरा गगनसम्भवया |
सवितामियेष गुणगृह्यतया स तदैव चोलधरणीपतिना ॥ ५३ ॥
अथ राजसिंहनृपतिर्नृपतेरनुजो विगृह्य कियदप्यपदे ।
उपयम्य चोलनृपतेस्तनयामपि तेन सख्यमकरोत् सुदृढम् ॥ १४ ॥
अथ तौ समेत्य मधुरानगरीमभिजग्मतुर्बहुचमूसहितौ ।
ददृशे निदाघसमयोऽपि तदा परिशोषयन् सलिलशब्दमपि ॥ ५५ ॥
अपि शुष्यति त्रिदिवसिन्धुजले तृषया हतेषु तुरगेषु भृशम् ।
गतिमान्द्यतो गगनसीम्नि रवेर्दिवसेषु दैर्ध्यमजनिष्ट तदा ।। ५६ ॥
तपने जगत् तपति निष्करुणं समये समस्तमयशो निहितम् ।
सचिवः खलः शिथिलयन् प्रकृतीर्नृपतिं किलापदि निमज्जयति ॥ ५७ ॥
बिततेषु विश्वजयिनः कुसुमेप्वतनोः शिरीषमवशिष्टमिदम् ।
तदपि प्रणश्यतु किमस्य गतं प्रभवोऽपि किं परमुखादरिणः ॥ १८ ॥
कुचकुम्भमेव मदनः सुदृशामवलम्व्य पूर्वमजयद् भुवनम् ।
अधुनापि चेत् स कुशली तदलं किमनेन धर्मह्तकेन शुना ॥ ५९ ॥
अविचारितारिसममित्रकथे समये जगत् तपति दुर्ललिते ।
मदनस्तदाशुगहताश्च समं शरणं ययुः स्तनगिरिं दृशाम् || ६० ॥
मदने प्रवर्त्तयति वारयति श्रमवारिशीकरकिरे समये ।
अलभन्त कामिषु गतागतिकामसकृच्चरा इव दृशः सुदृशाम् ॥ ६१ ॥
अनवेक्ष्य नाथमियमम्बुजिनी शिशिरे यदास्त विदितं किल तत् ।
परया श्रिया ज्वलति तत्र रवौ कथमद्य जीवनकथापि गता ॥ ६२ ||
विकचेषु सूरकिरणोष्मभिया मुकुलीकृतेषु च निवाततया ।
कमलोदरेषु शयितुं भ्रमरो न शशाक तप्तमधुसेवनतः ॥ ६३ ॥
अपि नारिकेलसलिलेक्षुर सैरजहत् तृषो रविकरकथितैः ।
अपिबन्नहः परिणतौ सुदृशामधरं प्रियाः प्रणयशीतलितम् ॥ ६४ ॥
करिणोऽपि कर्णवलयानसकृञ्चलयाम्बभूवुरनिलाय मुधा ।
ववृते न फूत्कृतिषु वामदृशां व्यजनेऽपि लुप्त इव गन्धवहः ॥ ६५ ॥