पृष्ठम्:शिवलीलार्णवः.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
शिवलीलार्णवे


इति सल्लपन् सरसमिन्दुधरो विचरन् गृहेषु विविधेषु विशाम् ।
करपल्लवव्यतिकरेण तदा सफलचिकार जननं सुशाम् ॥ ४० ॥
अथ ता मुनीन्द्रदयिता न चिरात् तनयोपलम्भमुदिताः शतशः ।
परिमृष्टश।पकलुषाः प्रमथैर्गिरिशो निनाय कलधौतगिरिम् ॥ ४१ ॥
स कदाचिदास्त वटमूलतले सनकादिभिः शमधनैर्नियतैः ।
अणिमादिसिद्धिकृतमद्रिसुताचरणार्चनोपनिषदं कथयन् ॥ ४२ ॥
उपदेशमेनमतिभक्तिवशादुपशृण्वतां शमवतां सविधे ।
अपि यक्षिणीरनवधानपराः कुपितः शशाप कुसुमास्त्रहरः ॥ ४३ ॥
क्वचिदत्र पाण्ड्यविषये विपिने विजने तले वटतरोर्महतः ।
उपलत्वमेत्य वसतेति ततः प्रससाद ताभिरसकृत् प्रणतः ॥ ४४ ॥
स समाः सहस्रमतिलङ्घय ततः परिगृह्य देशिकतनुं गिरिशः ।
अणिमादिसिद्धिमनुगृह्य पुनर्नयति स्म यक्षवनितास्त्रिदिवम् ।। ४५ ॥
कुलभूषणोऽपि धरणीरमणः शफरेक्षणासहचरार्चनया |
अथ राजपूर्वपदमिन्द्रमसौ लभते स्म शिक्षितनयं तनयम् ॥ ४६॥
अपि राजसिंह इति कश्चिद्भूदनुजोऽस्य दुर्विषयलुप्तमतिः ।
समनन्तरं पितुरयं सहजं सुतवद् ररक्ष तमपि क्षितिपः ॥ ४७ ॥
समयेऽत्र चोलनृपतिः प्रथितः कुलशत्रुरस्य किल पाण्ड्यविभोः ।
मधुरेशदर्शनकुतूहलिना मनसान्वतप्यत तपांसि चरन् । ४८ ॥
स्वपने कदाचिद्रथ चोलनृपं प्रतिबोद्ध्य गूढमुपयातमिमम् ।
विघटय्य गोपुरकवाटयुगं निजमानिनाय निशि धाम शिवः ॥ ४९ ॥
स निमज्ज्य हेमनलिनीसलिले प्रणिपत्य मीननयनागिरिशौ ।
तदनुग्रहेण नगराच बहिर्निरगान् तदैव निशि चोलनृपः ॥ ५० ॥
स पुनश्च गोपुरकवाटयुगं घटयञ्छिवो वृषभमुद्रिकया।
परिचिह्नयन् मनसि पाण्ड्य विभोरतनिष्ट संशयमभेद्यतरम् ॥ ५१ ॥
स परेद्युराप्तसचिवैर्विमृशन्नपि किञ्चिदध्यवससौ न यदा |
नृपतिस्तदा निखिलमोहहरं शरणं ययौ शशिकलाभरणम् || ५२ ॥