पृष्ठम्:शिवलीलार्णवः.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२१
सप्तदशः सर्गः ।


अथ कन्यकाः किल कुलेषु विशामतिसुन्दरेण वपुषा शतशः ।
अलभन्त जन्म मधुरानगरे समयेन शङ्करकथानिरताः ॥ २७॥
परपुंसि दारुवनचारिण याः परमं बबन्धुरभिलाषभिमाः
मुनिसुभ्रुवो हि पतिशापवशादभजन् विशां पुनरपत्यदशाम् ॥ २८ ॥
अथ तासु तत्र कलितावतरे तरुणिम्नि वैश्यतनयासु शनैः ।
मनसि स्मरस्मरजितौ युगपत् सुहृदाविव प्रविशतः स्म तदा ॥ २९ ॥
अथ वैश्यवीथिषु वणिक्तरुणो विमलाम्बरो विविधभूषणभृत् ।
अतिसुन्दरो वलयविक्रयिणामवलम्ब्य रूपमचरद् गिरिशः ॥ ३० ॥
वितथेषु पुष्पविशिखेषु शिवे वलयायुधानि बहुधा कलयन् ।
अयमालि ! सञ्चरति पञ्चशरो न मृषेति तत्र जगदुः सुदृशः ॥ ३१ ॥
वणिजस्ततो वलयविक्रयिणो भवति स्म वैश्यसुदृशां च तदा ।
इतरेतराशय चमत्करणी सरसा वचः प्रतिवचस्सरणिः ॥ ३२ ॥
वितरन्तु पक्कमिह तालफलं यदि वापि जम्भलफलं विपुलम् ।
बलयानिमान् दधतु वामदृशः कनकेन किं मम गिरौ वसतः ॥ ३३ ॥
क्व नु काञ्चिदेशमपहाय गतिर्मम वः कदाचिदिति मत्सविधे ।
अधरेधुरुक्तमधुना तु कथं वसतिं निजामभिदधासि गिरौ ॥ ३४ ॥
अतनुज्वरादभिहतोऽस्मि चिरात् तृषितोऽस्मि कापि यदि बिम्बफलैः ।
तरुणी भिषज्यति ममार्त्तिमिमां पथिकस्य मे भवति सा शरणम् ॥ ३५ ॥
उचितोपयोगविरहादफलं वितरामि तावदिह बिम्बफलम् ।
मदनाश्रवस्य परितश्चरतो भवतः कथं भवतु विज्वरता ॥ ३६ ॥
मुदृढास्तवैव करयोरुचिता इति ये त्वया सुघटिता वलयाः ।
त्वयि निर्गते सपदि तैर्गलितं वचनं कथं नु तव विश्वसिमः ॥ ३७ ॥
वलयान् प्रदाय करिदन्तमयान् न मणिर्न काञ्चनमयान मया ।
अपि काञ्चिकार्थनमभूद् विफलं त्वयि मे प्रतिश्रुतमपीह कथम् ॥ ३८ ॥
मम देहि विद्रुममयान् वलयान् मम देहि विद्रुममणिं प्रथमम् ।
मम देहि दन्तवलयान् विमलांस्तव तन्वि ! वेद्मि न हि दन्तपदम् ॥ ३९ ॥


१. काञ्चेिकस्य आरनालस्य अर्थ च काञ्चिकाया अर्थनम्,