पृष्ठम्:शिवलीलार्णवः.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
शिवलीलार्णवे


असकृद्विरिञ्चमुखमन्दुरिकाकुतुकादिवोत्पतितुमभ्रपथे ।
त्वरमाणमागमतुरङ्गबरं शमयन्निगालकरघट्टनया ॥ १५ ॥
हयमुत्पतन्तमिषुव * द्रभसादवरुद्ध्य सव्यमपसव्यमपि ।
भ्रमयन्नयत्नलवमुरुयुगद्रढिमैकदेशहतदुर्विनयम् ॥ १६ ॥
अभिगच्छति क्षितिभृति स्वयमप्यभिगम्य मूर्त्त इव वीररसः ।
अवधूय खड्गमवरुद्ध्य हयं प्रणनाम तं प्रणतमेष पुरः ॥ १७ ॥
अवितर्क्यवैभवमदृष्टचरं तमवेक्ष्य तामपि चमूं महतीम् ।
तदुदाररूपहृतवाङ्मनसः क्षणमास्त पाण्ड्यनृपतिस्तिमितः ॥ १८ ॥
वचनैरमुं प्रकटितप्रणयैर्वसनैर्विभूषणगणैश्च नृपः ।
परितोषयन् प्रतिमुहुः प्रणमन् परिषस्वजे दृढमभीक्ष्णमपि ॥ १९ ॥
मशकं विजेतुमनुचिन्तयता मदसिन्धुरोऽयमुपलब्ध इति ।
कथयन् नृपश्चरमुखादशृणोन्मृगयासु सिंहनिहतं विमतम् ॥ २० ॥
अथ पार्थिवः प्रमुदितस्तमसावनुमन्यते स्म शिबिराय यदा ।
स तिरोदधे सतुरगः सबलो गिरिशस्तदैव धुरि भूमिभुजः ॥ २१ ॥
तदवेत्य केलिषु कुतूहलिनो मधुरेश्वरस्य महिमायमिति ।
पिशुनान् निगृह्य पृतनाधिपतिं बहुमन्यते स्म बहुधा नृपतिः ॥ २२ ॥
निखिलं पुरा निजघनं गिरिशे व्ययितं यथा किल चमूपतिना ।
सकलं तथा व्ययितुमेव नृपश्चकमे तदादि मधुराधिपतौ ॥ २३ ॥
गजवाजिगोमहिषधान्यधनक्षितिभृत्यमित्रसुतदारमुखम् ।
सकलं शिवाय न ममेति वदन् ऋतुनारराध महताथ शिवम् ॥ २४ ॥
अवलोक्य रिक्तमथ कोशगृहं नृपतेर्दयानिधिरनङ्गरिपुः ।
धनमक्षयं वितरति स्म तथा स यथा न पारयति तद् व्ययितुम् ॥ २५ ॥
धनमक्षयं धनपतेर्दिशतो विगता शिवस्य नहि भिक्षुकता ।
कुलभूषणेऽद्य तु तदर्पयतः सदनं सुवर्णमणिचित्रमभूत् ॥ २१ ॥

  • 'तासभा 'दिति खपुस्तके पाठ: