पृष्ठम्:शिवलीलार्णवः.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११९
सप्तदशः सर्गः ।


अजनिष्ट सुन्दर इति प्रथितो नृपतेरमुष्य पृतनाधिपतिः ।
अतनिष्ट भक्तिमयमष्टविधामपि सुन्दरेशपदपङ्कजयोः ॥ २ ॥
अभिषेणनाय कृतसन्नहने शबरेश्वरे बलिनि चेदिपतौ ।
भटसंग्रहाय स बहु द्रविणं प्रददौ चमूपतिवशे नृपतिः ॥ ३ ॥
स शिवे निवेद्य शबरेन्द्रजये प्रतिभूर्भवानवानभर्त्तुरिति ।
अविचिन्त्य किञ्चिदपि पर्यचरद्रविणैस्तु तैर्द्रविणनाथसखम् ॥ ४ ॥
अतिनूत्नमातनुत धाम विभोः स सुधार्पणस्फुटितसङ्घटनैः ।
रथमूर्जितं क्षितिरथस्य हयान् करिणश्च काञ्चनमयानकरोत् ॥ ५ ॥
बलमानयेयमिति मन्त्रिवरान् बहुधा तु सोऽतिसमधत्त गिरा |
कुलभूषणाय परिपृष्टवते कथयाम्बभूव पृतनां मिलिताम् ॥ ६ ॥
सचिवोदितश्रवणजातरुषं नृपमिङ्गितैस्सिमवबुद्ध्य ततः ।
बहिरानिनाय स महीरमणं बलदर्शनाय सह तैः पिशुनैः ॥ ७ ॥
समये शशाङ्कशकलाभरणः सहितो गणैर्मनुजरूपधरैः ।
स्वयमाजगाम पृतनारजसा स्थगयन् दिशश्च विदिशश्च पुरः ॥ ८ ॥
रथवाजिसिन्धुरपदातिभिदाप्रविभक्तमप्युपसमेत्य मिथः ।
चलितं बलं नृपतिना ददृशे चतुरम्बुराशिसमवाय इव ॥ ९ ॥
असिचर्मचापशरकुन्तगदापरिघत्रिशूलनलिकादिकराम् ।
अतिभीषणाकृतिमदृष्टचरीं परिपश्यति स्म स पदातिचमूम् ॥ १० ॥
प्रलयान्तघोरपवनाभिहतप्रचलद्धराधरकुलप्रतिमम् ।
प्रसमीक्ष्य तं मदगजप्रकरं परिदुदुवुर्नरपतेः करिणः ॥ ११ ॥
कुरुविन्दकज्जलकुसुम्भनिशाशरकाण्डवासवशरासरुचः ।
मसृणोन्नतांसलमहाहनवस्तुरगाः प्रचेलुरथ तस्य पुरः ॥ १३ ॥
सुरवाहिनीलहरिशुभ्रपटीपरिवी तमौलिरसिचर्मधरः ।
परिनर्त्तयंस्तुरगमिन्दुधरो निरगादनादिरपि सादिवपुः ॥ १४ ॥
करभोष्टपुङ्गवकरीन्द्रधृतैर्विविधायुधोपकरणैश्च स्थैः ।
विविधध्वजैर्धुरि विभोश्चलिता रथिकाः शिलादतनयप्रमुखाः ॥ १६ ॥