पृष्ठम्:शिवलीलार्णवः.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
शिवलीलार्णवे


ततः पुरैवोन्मथिते फणाधरे धराधरत्वं प्रतिपद्य तस्थुषि ।
विषाग्नितप्तान् मनुजान् द्रुमानपि व्यधुत्त देवः करुणामृताप्लुतान् ॥ ८२ |
तथा गते भोगिनि गां सुदुर्जयां तथागताः काञ्चिदथाभिचारिकम् ।
अकल्पयञ्जेतुमिमां समादिशद् दयानिधिर्वाहवृषं वृषध्वजः ॥ ८३ ॥
स तुङ्गशृङ्गव्यतिषङ्गनिर्दलद्धनाघनस्रस्तघनाम्बुवृष्टिभिः ।
खुरक्षतक्षोणिरजः शमं नयन् महावृषः प्रास्थित तज्जिगीषया ॥ ८४ ॥
पदैः स यद् ध्यानतपोध्वरांहतिप्रभेदभिन्नैर्विददार मेदिनीम् ।
रजोभिरुद्धूलितसर्वविग्रहा बभूवुरेतत्प्रभवैर्महर्षयः ॥ ८५ ॥
वृषस्तदुद्धूय विषाणयोर्युगं प्रसह्य तस्या हृदयं बिभेद गोः ।
जरद्गवीनां हृदयं विविच्यते यदन्तश्चर्य वर्त्मना |॥ ८६ ॥
स तां पतन्तीमवनीधरात्मना समीक्ष्य शैलः स्वयमप्यभूद् वृषः।
उदग्रशृङ्गः पुरमुत्तरेण यो विराजतेऽद्यापि वृषाचलाख्यया ॥ ८७ ॥
ततः कुमारं कुलभूषणाभिधं तपोभिरासाद्य कुलार्हविक्रमम् ।
तदर्पिताशेषधुरो धरापतिः पदं प्रपेदे परमैन्दुशेखरम् ॥ ८८ ॥
गाम्भीर्येण निषङ्गतां विशिखतां धर्मगुहां निग्रहा-
दुच्छ्रायेण शरासतां कटकतामुच्चावचैर्वाङ्मुखैः ।
विश्वेषामनुरञ्जनैरनुपमैरुत्त॑ंसतामप्यसौ
बिभ्राणः कुलभूषणः कुलपतिं देवः सिषेवे शिवम् ।। ८९ ॥

इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते

शिवलालार्णव षोडशः सर्गः ।


अथ सप्तदशः सर्गः ।

कुलभूषणस्तदनु भूमिपतिः कुलदैवतस्य मधुराधिपतेः
चरणं सदा परिचरन्नशिषच्चतुरर्णवीवलयितामवनिम् ॥ १ ॥

+ 'मात्म' इति खपुस्तके पाठः.