पृष्ठम्:शिवलीलार्णवः.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११७
षोडशः सर्गः ।


हसन्नवज्ञामसृणैर्विलोचनैरवेक्षमाणस्तृणवत् तमुङ्भटम् ।
किमप्यमिक्रम्य चकार हुङ्कृतैः कृपाणमुष्टिं शिथिलं स वैरिणः ॥ १९ ॥
सदस्यतीवासिमधो निपातयत्यधो दधातीव निहन्ति मूर्धनि ।
प्रमत्तवत् तिष्ठति नाभिगम्यते परेण तस्यैवमवर्त्तताहवः ॥ ७० ॥
असिं विधून्वन् भ्रमयन्नुदञ्चयन् निपातयन्निश्चलमावहन् पुनः ।
'करोऽस्य दुर्योधमनोभयङ्करो निमेषमप्यैक्षत नैकचेष्टितः ॥ ७१ ॥
अविक्षतः काप्यसिधेनुधारया विभिद्य तस्योदरमाहरन् शिरः ।
प्रकाशयन्नङ्कजयं दिशां मुखे तिरोदधे तद्वपुरिन्दुशेखरः ॥ ७२ ॥
अहो जिगायाङ्क इति प्रशंसतां ततो जनानामवकर्णयन् गिरः |
विसिष्मियेऽङ्कः शिवसन्निधौ वसन्नबुद्धतत्सङ्गरसङ्कथः स्वयम् ॥ ७३ ॥
विचित्रमेतत् किल वृत्तमीशितुः प्रवृत्तमङ्के परभक्तिशालिनि ।
इति स्तुवन्तो मधुरौकसः शिवादनन्यमैक्षन्त तमस्त्रकोविदम् ॥ ७४ ॥
किमेतदङ्केन शिवे निवेदितं किमन्ततो वेत्ति स तं व्यतिक्रमम् ।
अहो दयालुत्वमनङ्गहन्तुरित्यभूच्चलानामपि निश्चलं मनः ॥ ७५ ॥
ततः स कालेन शशाङ्कशेखरः सदारमेनं प्रमथेष्वयोजयत् ।
तरन्ति नाद्यापि तपोधना द्विजाः क ईश्वराणामवधारयेन्मनः ।। ७६ ॥
तदादि भूयश्शिवभक्तिगौरवे विजृम्भमाणे विषये महीभुजः ।
तथागताः केऽप्यभिचर्य पन्नगं न्ययुञ्जतोद्दामविषाग्निभीषणम् ॥ ७७ ॥
तमद्रिकूटप्रतिमं महोरगं समापतन्तं नृपतिर्विचारयन् ।
पुराद्विनिर्गत्य पुराहितं स्मरन् शरं शरासे समधत्त दारुणम् ।। ७८ ।।
महेशभूषान्वययोगशङ्कितः क्षणं विनिश्चित्य स मायिकं ततः ।
अताडयत् पन्नगपाशमाशुगैः स चावमत् तव्द्यथया विषानलम् |॥ ७९ ॥
हालाहलेनेव पुरा विनिर्यता विषेण तेन ज्वलताभितापिताः ।
जनाः क्षितीशेन समं समाययुः शरण्यमीशं शरणं समाकुलाः ॥ ८० ॥
कृतस्मितो नीपवनेश्वरस्ततः कियसदस्तीति गिरा प्रहर्षयन् ।
उपेत्य लिङ्गादुरगान्तिकं गतः समन्ततः प्रैक्षत शान्तयाः-दृशा ॥ ८१ ॥