पृष्ठम्:शिवलीलार्णवः.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
शिवलीलार्णवे


स तत्र विस्रम्भमवाप्य सँल्लपन् न्यवेदयत् स्वं निखिलं विचेष्टितम् ।
ततः किरातीवचनानुवर्त्तिना किरातयूनेत्थमबोधि निष्कृतिम् ॥ ५६ ॥ .
न कर्मयोगैर्न तपश्शतेन वा विनेतुमंहस्तव विप्र ! पार्यते ।
दुरुत्तरं दुष्कृतमप्यमुं शिवं प्रपद्य वर्षैस्त्रिभिरुत्तरिष्यसि ॥ १७ ॥
इतीरयित्वैव तिरोहितं क्षणादवेक्ष्य तद् द्वन्द्वमपास्तसंशयः ।
अवाललम्बे दृढमम्बिकासखं स विप्रबन्धुः शरणं शरीरिणाम् ॥ १८ ॥
जपार्चनध्याननतिप्रदिक्षिणस्तवैः स तिस्रः शरदो निरन्तरम् ।
प्रसाद्य देवं प्रमथैः पुरौकसां समक्षमानीयत शाङ्करं पुरम् ॥ ५९ ॥
विशन् पुरीमेव विधूतपातकः सकृत् प्रणम्यैव शिवं गणोऽभवत् ।
परन्तु वैदेशिक एष वत्सरान् प्रतारितस्त्रीनिति पौरवागभूत् ॥ ६० ॥
अनुस्मरन् स्वं चरितं विसिष्मिये स नीयमानः प्रमथैः शिवान्तिकम् ।
विमृष्टमर्मा तु शिवे न्यवेशयत् ततस्त्रिवर्षार्चनयाधमर्णताम् ॥ ६१ ॥
अथाङ्क इत्यस्त्रविदां पुरोगमो गुरुर्भटानां खुरलीषु विश्रुतः ।
बहून् समध्यापयदस्त्रसंहितां प्रयोगसंहाररहस्यकोविदः ॥ ६२ ॥
बभूव शिष्येष्वमितेषु सिद्ध इत्यभिख्यया कश्चन तस्य वल्लभः ।
तमस्त्रशस्त्रेषु विशिष्य पुत्रवद् गुरुर्व्यनैषीदविदन् दुराशयम् ॥ ६३ ॥
स दुर्मतिः स्वं गुरुमप्रकाशयन् प्रकाशयन् स्वां पटुतां तदाहिताम् ।
अपि स्वशिष्या इति शस्त्रकोविदान् भटान् सतीर्थ्यान् प्रलपंश्चचार सः ॥
कदाचिदङ्कस्य सदा सदाशिवप्रणामहेतोर्वसतः शिवालये ।
उपेत्य गेहं युवतिं च तत्प्रियां रहो जिघृक्षन्ननयावधीरितः ॥ ६५ ॥
तमङ्करूपं परिगृह्य जातुचिद् दुराशयं द्वन्द्वरणे निबर्हितुम् ।
पुराद् बहिः पश्यति पौरमंण्डले कृपाणपाणिर्युयुधेऽमुना हरः ॥ ६६ ॥
स वञ्चयन् विगममुष्य लीलया कदापि मर्म स्वकमप्रदर्शयन् ।
अपक्रमाभिक्रमसम्प्लुतोत्प्लुतैर्विचित्रमीशो व्यचरद् रणाङ्गणे ॥ १७ ॥
अवस्थितः स्थाणुवदग्रतो रिपोर्निपातयन्निश्चलमायुधं क्षितौ ।
अपि प्रहाराञ्छतशोऽस्य निस्सृतानवञ्चयत् किञ्चिदिवाङ्गकुंञ्चनैः ॥ ६८ ॥


+ खड्गम् ' इति खपुस्तके पाठः