पृष्ठम्:शिवलीलार्णवः.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
द्वितीयः सर्गः ।


गुणान् न गृह्णन्तु खलास्ततः किं गृह्णन्तु • दोषानपि वा ततः किम् ।
अपि व्यतिस्तामुभयं ततः किं गुणोऽपि दोषो यदि दुस्सहं तत् ॥ ७३ ॥
क्व ब्रह्मलोकः क्व गिरां सवित्री व भूमिभागाः क्व वयं वराकाः ।
दिष्ट्योपलब्धामपि देवतां तां विक्रीणते वृत्तिकृते विमूढाः ॥ ७४ ॥
दुष्पण्डिताराधनदुःखशीलान् कष्टादमुष्मात् कविताधिकारात् ।
वरं जगत्यामिह मूकभावो वरं च तिर्यक्तृणगुल्मभावः ॥ ७५ ॥
प्रायो जडा मत्सारिणश्च लोका दोषोत्तरं मृग्यगुणं वचो नः ।
गुणैकलुब्धोऽपि जनः कचित् स्यादित्याशयैवायमियान् प्रयासः ।। ७६ ।।
‘वेदाहमेतं पुरुषं महान्त'मित्यामनन्तो निगमाः सगर्वम् ।
श्वानः कृता येन स एव देवो वर्ण्यः कथं वाङ्मनसातिवर्ती ॥ ७७ ॥
शब्देषु चार्थेषु परं यतिष्ये तथा तथा मां गुरवो विनिन्युः ।
चमत्कृतिं तत्र कथं विधास्ये न मत्कृतिर्यत् क्रमते तदंशे || ७८ ॥
क्वाहं क्व काव्यं कविराजसाध्यं काहं व शम्भुर्निगमैरगम्यः ।
निश्शङ्कमेवांवेदपि प्रवर्त्ते निर्लज्जते देवि ! तव प्रसादात् ॥ ७९ ॥
दत्ते त्वया वाङ्मयरत्नकोशे विक्रीय भुक्तं किल भुक्तमेव ।
शिष्टं त्वदङ्घ्र्योः पुनरर्पयेयं दयस्व मीनाक्षि ! पुरैव मह्यम् ॥ ८० ॥

शब्दा यद्वदनं प्रपद्य मृदुतामाशासतेऽन्यादृशी-
मर्था यद्धिषणाप्रवाहपतनादिच्छन्ति जिज्ञास्यताम् ।
यत्कीर्त्तिस्पृहया शिवोऽपि निगमान् ग्रन्थाति सर्गादिषु
प्राचस्तान् कवितापितामहपदारूढान् कवीन् प्रस्तुमः ॥ ८१ ॥

इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते
शिवलीलार्णवे प्रथमः सर्गः ।


अथ द्वितीयः सर्गः।

अस्ति क्षितेराभरणायमानः पारेसमुद्रं स हि पाण्ड्यदेशः ।
आशामगस्त्याध्युषितां गतोऽपि सर्वोत्तरो यो जगति प्रतीतः ॥ १ ॥


'कतरि कर्मव्यतीहारे' इति तङ्. २. किरातावस्थायामिति शेषः,