पृष्ठम्:शिवलीलार्णवः.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शिवलीलार्णवे


पथा प्रवृत्तान् प्रहतेन मूर्खाः पश्यन्त्यवज्ञामुकुळकृताक्षाः ॥ ५९ ॥
रसं रसज्ञाः कलयन्ति वाचि परे पदार्थानपरे पदानि ।
वस्त्रं कुविन्दा वणिजो विभूषां रूपं युवानश्च यथा युवत्याम् ॥ ६० ॥
पाठप्रकारैः पदयोजनाभिस्तात्पर्यदुर्निश्चयतश्च मन्दैः ।
आयात्यमानां गिरमात्मनो ये कर्णे न कुर्वन्ति त एव धन्याः ॥ ६१ ॥
एको हि दोषः परकीयतैव पद्येषु सर्वेष्वपि दुर्जनानाम् ।
तस्मिन् पुरस्थेऽपि कियद्यतन्ते वृथैव ते दोषगवेषणाय ॥ ६२ ॥
आनन्दथुर्ब्रह्मविदां यदेकस्ते व्यङ्ग्यलाभेषु शतं कवीनाम् ।
एते सहस्रं पुनरर्बुदं वा परोक्तिदोषरफुरणे खलानाम् ॥ ६३ ॥
प्राचीनपद्यभ्रमतः प्रवृत्ताः स्तोतुं खलः प्रेक्ष्य कविं पुरस्तात् ।
येनान्यथाकर्त्तुमिदं गतन्ते क्लेशेन तेषां हि स एव दण्डः ॥ ६४ ॥
दोषः क्वचित् कश्चिदिति प्रतीतः प्राचामलङ्कारविदां प्रवादः ।
सर्वप्रबन्धानुगतस्तु मन्ये कर्तुः कवेर्जीवनमेव दोषः ॥ ६५ ॥
मुधैव वाक्येषु पदेप्वधीतं मुधैव दीर्घं कवितापथेऽपि ।
आवश्यकं यत्किल पामराणामावर्जनं तन्न किमप्यधीतम् ॥ ६६ ॥
निसर्गतो निर्गुणमुक्तिगुम्फं समर्थयन्ते सगुणं बलाद्ये ।
ते कञ्चुळीसन्नहनोन्नतेन लम्बस्तनेनापि मुदं लभन्ते ॥ ६७ ॥
पाण्डित्यलोभो यदि पामराणां कामं विहिंसन्तु कलास्त्रिषष्टिम् ।
कस्तेऽपराधः कविते! गृहीतः किमस्ति ते किञ्चन पूर्ववैरम् ॥ ६८ ॥
वाचं कवीनामुपलाळयन् यां भुङ्क्ते रसज्ञो युवतिं युवेव ।
तामेव भुङ्क्ते ननु तार्किकोऽपि प्राणान् हरन् भूत इव प्रविष्टः ॥ ६९ ॥
अर्थेप्वलङ्कारविदः प्रमाणं शब्देषु नः शब्दविदो मुनीन्द्राः ।
के तान्त्रिकाणां कवयो भवन्ति के वा कवीनामपि तान्त्रिकाः स्युः ॥ ७० ॥
घट्टोपविष्टानिव वाग्भिरर्थैः काव्यागमज्ञानुपसान्त्वयामः ।
आप्लुत्य भल्लूकवदापतन्तः कथं नु जय्या इह गौतमीयाः ॥ ७१ ॥
अप्यन्तिक स्थैरविभावनीयः सूक्ष्मः प्रकृत्या मृदुसूक्ति जन्मा ।
कुतर्कविद्याभ्यसनोपजातैः कोलाहलैर्न ध्वनिरेष वेद्यः ॥ ७२ ॥
१. घट्टः शुल्कस्थानम्.