शब्दार्थयोर्दुष्कविवक्रभाजोः किं दुष्कृतं स्यादवधारयन्तु
॥४७॥
श्राम्यन्ति यावत् कवयः परेऽपि श्राम्यन्ति तावच्च ततोऽधिकं च ।
गर्भोद्भवादिः प्रसवावसानः क्लेशो हि दुष्पुत्रमसुवां च तुल्यः
॥ ४८ ॥
दाक्षिण्यहानिर्जगतां विधातुर्देव्या गिरां दुर्मरणस्य योगः |
पापं जनस्येति च सर्वमेतत् समाहृतं दुष्कवितानिदानम्
॥ ४९ ॥
आब्रह्मघातादघशोधनानि स्मरन्ति ये ते परमर्षयोऽपि ।
यावत्तदात्मान्वयिताधियैव न सत्मरुर्दुष्कवितासु शुद्धिम्
॥ ५० ॥
स्वोक्तिं मुषित्वा पुरतः पठन्तं स्वत्यैव पश्यन् कविसाहसाङ्कम् ।
प्राज्ञो जनः किं प्रतिपद्यतां तमाहन्तु वा स्वोदरमाहतां[१] वा
॥ ५१ ॥
निन्दन्तु वाचं मधुरां कवीनां नन्दन्तु च स्वां गिरमेव मूर्खा: ।
नाद्यां स्वरीत्या रसयन्तु जातु नान्त्यां पठन्तु स्वपतोऽपि पार्श्वे
॥ ५२ ॥
हिंसा पशूनां क्रतुमध्यलग्ना स्वर्गे यथास्ते क्ष(य?)णदुःखहेतुः ।
किञ्चिच्छुभं पातकमव्यलग्नं तथा मुदे स्यादपि दुष्कवीनाम्
॥ ५३ ॥
प्राचेतसव्यासमुखाः कवीन्द्राः प्राञ्चोऽपि किं दुष्कविभिर्विरक्तः ।
काव्यानि कर्तुं शतशः क्षमास्ते कथं न चेदासत [२]काकवन्ध्याः
॥ ५४ ॥
स्थूलाभिरभ्युल्लिखितानि धीभिः स्थूलानि मन्ये कुकवेर्वचांसि ।
कथं न चेत् कर्णपुटं प्रवेष्टुमेतानि यत्नादपि नोत्सहन्ते
॥ ५५॥
वाचं हतो यद्यपि ते तथापि न मूकता दुष्कवितैष दोषः ।
आद्या यदेकत्य विवादहेतुः प्राणोपरोधाय परा बहूनाम्
॥ ५६ ॥
वाचं विपञ्चीमिव [३].वादयन्ति कर्णामृतेन ध्वनिना कवीन्द्राः ।
मूर्खाः स्वमेधामुसलप्रहारैर्विनाशयन्त्येव विचेष्टमानाः
॥ ५७ ॥
शक्यं सुखं ग्रन्थयितुं प्रबन्धान् शक्यस्तु न श्रोतृजनानुरोधः ।
श्रान्ते सति क्वापि कवौ यदेष सर्वस्वनाशादिव खेदमेति
॥ ५८ ॥
अचुम्बितोल्लेखपदप्रवृत्तानसम्प्रदायेन कविन् क्षिपन्ति ।
पृष्ठम्:शिवलीलार्णवः.djvu/१३
पुटमेतत् सुपुष्टितम्
५
प्रथमः सर्गः ।