पृष्ठम्:शिवलीलार्णवः.djvu/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
शिवलीलार्णवे


साहित्यविद्यां पदमेकमेव सर्वानक्द्यामपि[१] हन्ति दुस्स्थम् ।
दन्तावलिं मौक्तिकदामरम्यां दंष्ट्रेव वक्त्राद् बहिरुल्लसन्ती ॥ ३५ ॥

अन्योन्यसंसर्गविशेषरम्याप्यलंकृतिः प्रत्युत शोचनीया |
निर्व्ङ्ग्यसारे कविसूक्तिबन्धे निष्क्रान्तजीवे वपुषीव दत्ता ॥ ३६॥

विद्वत्प्रियं व्यङ्ग्यपथं व्यतीत्य शब्दार्थचित्रेषु कलेर्विलासात् ।
प्राप्तोऽनुरागो निगमानुपेक्ष्य भाषाप्रबन्धेष्विव पामराणाम् ॥ ३७॥

कृते युगे व्यञ्जनयावतीर्णं त्रेतायुगे सैव गुणीबभूव ।
आसीत् तृतीये तु युगेऽर्थचित्रं युगे तुरीये यमकप्रपञ्चः ॥ ३८ ॥

दिष्ट्याधिरूढाः कविताधिराज्यं धीरा रमन्ते न हि शब्दचित्रे |
स्वर्गेऽपि गत्वाप्सरसां निवासे काणैव किं कापि गवेषणीया ॥ ३९ ॥

मत्वा पदग्रन्थनमेव काव्यं मन्दः स्वयं तावति चेष्टमानाः ।
मज्जन्ति बाला इव पाणिपादप्रस्पन्दमात्रं प्लवनं विदन्तः ॥ ४० ॥

कालाद् बहोः कान्यपि दुष्पदानि लब्धानि मन्दः परितो विकीर्य ।
छिद्राणि लोष्टैरथ पांसुभिश्च सम्पूरयन् विस्मयते विलज्जः ॥ ४१ ॥

अद्यैकमेकं कुधियः परेद्युरन्येद्युरेकं च पदं निबध्य ।
शुक्तं क्वचित् पर्युषितं क्वचिच्च कोष्णं क्वचिच्चारचयन्ति पद्यम् ॥ ४२ ॥

आपूर्य वक्त्रं लशुनैर्विधाता किं निम्बसारैः कुधियामसिञ्चत् ।
न चेत् कथं वाचि ततः क्षरन्त्यां स पूतिगन्धः स च तिक्तभावः ॥ ४३ ॥

लभेय निन्दामपि सत्कवीनां सव्यङ्ग्यसौरभ्यरसैर्वचोभिः ।
नतु प्रशंसामपि दुष्कवीनां दुर्गन्धिभिर्वीतरसैरमीभिः ॥ ४४ ॥

विवक्षितार्थप्रतिपादकं ये विन्यासभेदं न विदुः पदानाम् ।
दुःखावहोऽर्थः स्फुरितोऽपि तेषां दाौर्भाग्यभाजामिव पुत्रलाभः ॥ ४५ ॥

दुर्मेधसः शुष्कतरां कठोरां दुर्गन्धसान्द्रां गिरमुद्गिरन्तः |
कालं चिरं हन्त कथं व्यथन्ते श्रोतुर्दशातन्स कियत्तमोंऽशः ॥ ४६ ॥

शृण्वन्तु ते दुष्कवितां परेषां श्रोत्रेषु तप्तं जतु यैर्निषिक्तम् ।

 

  1. हन्तेति शांके ! दुष्कवयो दुष्काव्यनिर्माणार्थ यद्यथन्ते तच्छोचनीयमित्यर्थः । तामिमां
    मेर्मातॄणां व्यथनदुरवस्थां श्रोतुः श्रवणव्यथादुरवस्था दुरमनिशेत इत्याह - श्रोतुर्दशात इत्यादि.