पृष्ठम्:शिवलीलार्णवः.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
शिवलीलार्णवे


अजायतानन्तगुणाख्यया श्रुतस्तनूभवानां प्रथमो धरापते; ।
तदाश्रितारतच्चरणार्पितासवः परेऽपि तत्तुल्यगुणा विजह्रिरे ॥ ३१ ॥
यदीदृशी दारसमृद्धिरीदृशी कुलाभिवृद्धिश्च बभूव भूपतेः ।
इदं हि लीलायितभिन्दुशेखरप्रसादलेशप्रतिलम्भसम्पदः ॥ ३२ ॥
स वीरभद्रः स्वशरीरसम्भवैः स्वतुल्यतेजोनिधिभिर्गणैरिव ।
समं कुलोतुङ्गमहीपतिः सुतैः शशास सर्वाञ्छिवशासनद्विषः ॥ ३३ ॥
अथ द्विजः कश्चन बालपुत्रया समं गृहिण्या मधुरां समासदत् ।
तले वटस्यास्त विशालशीतले क्वचित् कठोरातपतापतापितः ॥ ३४ ॥
असञ्चरत्पान्थमनालपद्विजं सरोजकोशोदरलीनषट्पदम् ।
प्रतप्तहेमप्रतिमं समस्तमप्यभूद्हर्मध्यगते जगद् रवौ ॥ ३५ ॥
ज्वलद् विनापि ज्वलनेन भूतले मदान्धभद्रेभनखंपचं रजः ।
अवेक्षमाणैर्नयनैः शरीरिणामतिप्रतेपे दहनाहतैरिव ॥ ३६ ॥
सगेहिनी बाहुलतोपधायिना कुचाग्र विन्यस्तमुखेन सूनुना।
तले शयानां तृपयार्दितां तरोरवेक्ष्य हर्त्तुं सलिलं ययौ बहिः ॥ ३७ ॥
स किञ्चिदासाद्य सरोऽतिनिर्मलं हरन् जलं पद्मदलेन शीतलम् ।
ददर्श विद्धां दयितां महेपुणा रुदन्तमस्याः शिशुमप्युरस्स्थले ॥ ३८ ॥
प्रियावियोगव्यसनाभिमूर्च्छितः स यावदन्विष्यति तत्र कारणम् ।
ददर्श तावन्मृगयाविहारिणं धनुर्धरं लुब्धकमेकमन्तिके ॥ ३९ ॥
अनेन नूनं दयिता ममाहतेत्यवेत्य केशेषु परामृशन्नमुम् ।
उपेत्य राज्ञः प्रतिहारमुञ्चकैर्द्विजः प्रचुक्रोश विषादविह्वलः ॥ ४० ॥
ततः कुलोत्तुङ्गनृपस्तदद्भुतं निशम्य खिन्नः पृथगन्वयुङ्क्त तौ ।
न निश्चिकायैकमघाभियोक्तरि द्विजे किराते च दृढं मृषोत्तरे ॥ ४१ ॥
न तत्त्वमत्र व्यवसातुमीश्महे विना प्रसादाद् गिरिजापतेरिति ।
निरुध्य लुब्धं शमयन् द्विजं गिरा नृपः प्रपेदे शरणं पिनाकिनम् ॥ ४२ ॥
द्विजद्वितीयो नगराद् बहिश्चरन् निशि त्वमस्यामुपलप्स्यसेऽखिलम् ।
इतीरितो भूपतिरिन्दुमौलिना स वैश्यवीथ्यामचरत् क्वचिद्बहिः ॥ ४३ ॥