पृष्ठम्:शिवलीलार्णवः.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
षोडशः सर्गः ।


उदश्चिताकुञ्चितसव्यपादिकाचिरानुवृत्तिश्रमखिन्नमानसः ।
श्रमं तमीशेऽपि समं व्यचिन्तयत् स हि स्वयं पश्यति शम्भुमात्मवत् ॥ १८ ॥
निधाय सव्यं निभृतं पदं क्षितावुदञ्चयन् दक्षिणमङ्घ्रिमुच्चकैः ।
नटन्नुदस्व श्रममित्यनुक्षणं नटेश्वरं प्रार्थयते स्म पार्थिवः ॥ १९ ॥
अदर्शितस्पन्दमथेष दप्यमुं नटेशबिम्बं कलयन् नरेश्वरः ।
कृपाणकृत्तेन निजेन मौलिना स देवमाराधयितुं समैहत ॥ २० ॥
न किञ्चिदानन्दमयं स वेद तं न वा किमर्चास्वनपायिनीं स्थितिम् ।
तथापि तस्याभवदीदृशी मतिस्तथा हि भक्तिस्तपसापि दुर्लभा ॥ २१ ॥
अवेत्य दुर्भेदममुष्य निश्चयं तथा स देवः प्रससाद नर्त्तितुम् ।
न दुर्लभा तस्य कदापि वश्यता सुदुर्लभा तु स्थिरशीलतैव नः ॥ २२ ॥
अनन्यथात्वव्रतमात्मकर्मणामपि त्यजन् दूरत एव शङ्करः ।
यथा स मेने हृदि राजशेखरस्तथा विपर्यस्य ननर्त्त तत्क्षणम् ॥ २३ ॥
निधाय सव्ये निखिलं भरं तनोः पदे यदास्त प्रकृतिस्तु तस्य सा ।
प्रपञ्चसर्गस्थितिभङ्गभारमप्ययं तु तत्रैव निवेश्य निर्वृतः ॥ २४ ॥
तदद्भुतं ताण्डवमैन्दुशेखरं प्रसादतस्तस्य सिषेविरे जनाः ।
गणेश्वरास्ते विषये महीपतेर्वसन्ति ये शङ्करभक्तिशालिनः ॥ २५ ॥
बबन्ध भक्तिं स्वकृते कृते नृपो विशिष्य तस्मिन् विपरीतताण्डवे ।
तदादि तद्वंशभुवोऽपि पार्थिवास्तमेव देवं शरणं प्रपेदिरे ॥ २६ ॥
प्रमार्ष्टुमागः शतशः समर्पयन् पतिः प्रजानां मणिभूषणानि सः
सुतं कुलोत्तुङ्ग इति श्रुतं ततो वरेण लेभे नचिरेण शूलिनः ॥ २७ ॥
गते धरित्रीभृति राजशेखरे गतिं समाख्याविधयैव सूचिताम् ।
कुलोचितोत्तुङ्गगुणाकरश्चिराद् दधौ कुलोतुङ्गमहीपतिः क्षितिम् ॥ २८ ॥
गुणेन शीलेन कुलेन चोन्नतं तमीक्षमाणाः क्षितिपास्ततस्ततः ।
उपाहरन् स्वस्वकुमारिकाः स्वतस्ततोऽयुतं तस्य बभूवुरङ्गनाः ॥ २९ ॥
स तासु लेभे सकलासु पार्थिवः समानरूपान्वयशीलवृत्तिषु ।
कुलोचितौदार्यविवेकशालिनां कुमारकाणामयुतानि षट् ततः ॥ ३० ॥