पृष्ठम्:शिवलीलार्णवः.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
शिवलीलार्णवे


दुरागमाभ्यासविलुप्तसत्पथे महेश्वरद्वेषमलीमसात्मनि ।
दधीचिशापोपहत्ते द्विजान्वये प्रसूतमेनं बुबुधे ततस्तु सः ॥ ५ ॥
अलङ्घनीयं शिवशासनं सुरैरपि स्वयम्भूविबुधेश्वरादिभिः ।
स चिन्तयन् स्वोचितदानसत्कृतां सहोपयन्त्रा प्रजिघाय कन्यकाम् ॥ ६ ॥
अथ स्नुषामात्मभुवा स्वयं हृतामवेक्ष्य फाले भासतेन लाञ्छिताम् ।
शिवद्विषों तच्छृशुरौ ज्वलद्रुषा निवेशयामासतुरालये पृथक् ॥ ७ ॥
शिवार्चनध्यानकथाविवर्जिते श्मशानतुल्ये सदने तु तत्र सा |
अमङ्गले सत्यपि सर्वमङ्गलामनुस्मरन्ती दिवसानि चिक्षिपे ॥ ८ ॥
ततः सदारे श्वशुरे बहिर्गते कदाचिदेनां सदने निषेदुषीम् ।
प्रहर्षयन् प्रादुरभूद् द्विजात्मना विभूतिरुद्राक्षविभूषितो हरः ॥ ९ ॥
तमातिथेयीभिरसौ सभाजयन्त्युपास्त यावज्जरठं द्विजर्षभम् ।
विवेश तावच्छृशुरस्तमालयं स च द्विजोऽदृश्यत सुन्दरो युवा ।। १० ।।
ततः शिवानुस्मरणैकसाधनां स वेपमानामभिलक्ष्य तां हरः ।
स्तनन्धयोऽदृश्यत तत्समीपतः स्वरेण तस्याः श्वशुरावमर्षयन् ॥ ११ ॥
ततस्तु पृष्टा प्रतिवेशिनीसुतं तमालपन्ती श्वशुरेण कुप्यता ।
बहिर्निरस्ता शिशुनामुना समं निनाय पर्यश्रुमुखी निशामसौ ॥ १२ ॥
भवस्य तं पश्चिमवक्ररूपिणं शिशुं स्मरन्तीं हृदि विप्रकन्यकाम् ।
निनाय कल्ये निजमास्पदं शिवो वृषेण विस्मापितविष्टपत्रयः ॥ १३ ॥
स्तनन्धयं देवमुपास्य सा जहौ स्तनन्धयत्वं भवसङ्घसञ्चितम् ।
क्रमेत शम्भाववितर्क्यवैभवे क्व तत्ऋतुन्यायविदुक्तिपद्धतिः ॥ १४ ॥
मनुं किल व्यक्षरमाचचक्षिरे प्रभुं प्रजासर्गविधौ पुराविदः ।
अयं तु सृष्टिस्थितिसंहृतिक्षमो मनुं यमेकाक्षरमारराध सा ॥ १५ ॥
कदापि देवः करिकालचोलतो निशम्य नृत्तानभियुक्ततां निजाम् ।
बभूव सद्यो नटसूत्रपारगः किमादिशैलषकुले तदद्भुतम् ॥ १६ ॥
शिवे प्रसक्ते सति शैवरात्रके महाव्रते मन्दिरमैशमाश्रितः ।
प्रसन्नमभ्यर्चनया हरं पुनः प्रसादयिष्यन् प्रणनर्त्त पार्थिवः ॥ १७ ॥