पृष्ठम्:शिवलीलार्णवः.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१११
अथ षोडशः सर्गः ।


नरकेसरिणास्त्ररूपिणा शमिते हस्तिनि शैलतां गते ।
तमनु प्रहितास्तथागता न समैक्ष्यन्त यथा तथा गताः ॥ ८३ ॥
सुगतान् सुगतात्मनेषुणा स विजिग्ये चतुरो वनेचरः |
अहिरेव हि वेत्त्यहेः पदं कथमन्येन घटेत तज्जयः ।। ८४ ।।
विदितः किल सर्वदेहिनां विजयः पञ्चमुखेन हस्तिनः ।
गुणगृह्यतया तदप्यसौ मुमुदे विक्रमपाण्ड्यपार्थिवः ॥ ८५ ॥
अनुगृह्य दयार्द्रया दृशा प्रणतं भूतपतिः प्रजेश्वरम् ।
तनयं च तदन्वयोचितं वरमस्मै वितरंस्तिरोदधे || ८६ ॥
अजनिष्ट विभोरनुग्रहात् तनयस्तस्य च राजशेखर:
यदुपाहितभूभरो गुरुः प्रतिषेदे पदमैश्वरं परम् ॥ ८७ ॥
सप्तमो मलयध्वजस्य स सप्तसप्तिसमद्युति-
र्बिभ्रदङ्गदनिर्विशेषमशेषमेव महीतलम् ।
आरराध सभाजनैरतिमानुषैर्मधुरेश्वरं
रञ्जयन् जनताः सुतानिव राजशेखरपार्थिवः ॥ ८८ ॥

इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते

शिवलीलार्णवे पञ्चदशः सर्गः ।

अथ षोडशः सर्गः ।


अथ क्षितिं बिभ्रति राजशेखरे द्विजो विरूपाक्ष इति प्रथां गतः ।
चिराय शम्भुं तपसा प्रसादयन्नवाप गौरीत्यभिविश्रुतां सुताम् ॥ १ ॥
स कन्यया जात्वपि पञ्चवर्षया समेत्य तातस्तपसेऽभियाचितः ।
अदेयमप्येवमपत्यसौहृदाददिक्षदेकाक्षरमम्बिकामनुम् ॥ २ ॥
भवप्रवाहप्रतिपन्नवासनाप्रबन्धयोगेन कुमारिकापि सा ।
असाधयन्मन्त्रमशेषसिद्धिदं जगन्निदानं जपयज्ञनिष्ठया ॥ ३ ॥
गुरौ वसन्तं कृतभैक्षवृत्तिकं कदाचिदेकं गृहमागतं वटुम् ।
अवेक्ष्य तस्मै गुरुरात्मजामदादचिन्तयित्वा कुलशीलबन्धुताः ॥ ४ ॥