पृष्ठम्:शिवलीलार्णवः.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
शिवलीलार्णवे


नमते धरणीभृते वरं तनयं वंशकरं प्रसादयन् ,
स्मयमानमुखाम्बुजो हरो मिषतस्तस्य पुरस्तिरोदधे ॥ ७० ॥
अथ विक्रमपाण्ड्यभूपतिस्तनयोऽभूदभिषेकपाण्ड्यतः ।
उदितोदितमुद्वहन् कुलं कुलदासः कुसुमायुधद्विषः ॥ ७१ ॥
स पितुः परलोकमेयुषश्चरमाज्ञां शिरसोपधारयन् ।
अनुपाधिमनन्यगामिनीमचलां भक्तिमधत्त शङ्करे ॥ ७२ ॥
शिवनामपरः शिवाश्रयः शिवविन्यस्तभरः शिवाश्रमी ।
जगदाकलयन् शिवात्मकं जननाथो बुभुजे वसुन्धराम् ॥ ७३ ॥
शशिनीव समस्तवल्लभे नृपतौ भूतपतेः प्रणप्तरि ।
पितरीव सुता महीभुजो बिभरामासुरविष्ठतां मतिम् ॥ ७४ ॥
कुलशेखरपाण्ड्य सप्तमं नृपतिं तं किल चोलपार्थिवः ।
न ममर्ष शरद्विनिर्मलं शशिनं चोर इव स्वदोषतः ॥ ७९ ॥
अतिवर्तितुमेनमक्षमः स वराकः समरे भुजोष्मणा ।
क्षपणैः ऋतुमाभिचारिकं कलयामास पयःस्विनीतटे ॥ ७६ ॥
तत उच्चलितो दुरध्वराद् द्विरदः कोऽपि गिरीन्द्रभीषणः ।
समया मधुरामुपाद्रवत् कलयन् मुद्गरमायसं करे ॥ ७७ ॥
तमुदन्तमयं विचारयन् शरणं प्राप शशाङ्कशेखरम् ।
स च तत्र किरातरूपभृत् परिचक्राम निजालयाद् बहिः ॥ ७८ ॥
वनपल्लवभङ्गशेखरं वरगुञ्जाफलपुञ्जभूषणम् ।
अधिरोपितकार्मुकं जना ददृशुर्दिव्यममुं वनेचरम् ॥ ७९ ॥
उपलभ्य गजं तमुद्धतं पथि गव्यूतियुगे व्यवस्थितम् ।
नरसिंहमयोजयच्छरे नरसिंहस्य मुदे वनेचरः ॥ ८० ॥
त्रिपुरेषु गतेषु लक्ष्यतां हसितेनास्मि पुराप्यपोदितः ।
इति सत्वरमीशकार्मुकादुदयासीद् दनुजान्तकः शरः ॥ ८१ ॥
स हसन्नचलेन धन्वना विशिखेन स्वयमच्युतेन च ।
जगदेकधनुर्धरः क्षणादभिनत् सिन्धुरमाभिचारिकम् ॥ ८२ ॥