पृष्ठम्:शिवलीलार्णवः.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०९
पञ्चदशः सर्गः ।


इति केलिकलाकुतूहली विजहारैष यथा यथा पुरे |
अशृणोदखिलं तथा तथा प्रकृतिभ्यो नृपतिः पदे पदे ॥ ५७ ॥
स कदाचन सुन्दरेशितुर्वितते धाम्नि विमानपश्चिमे ।
उपविष्टममुं यदृच्छया नृपतिः प्रैक्षत सेवितुं गतः ॥ ५८ ॥
दृशमस्य तृणीकृतामरां गिरमज्ञातपरानुवर्त्तनाम् ।
स्थितमीप्सितगन्धदुर्विधं परिपश्यन् नृपतिर्विसिष्मिये ।। ५९ ।।
अतिवाङ्मनसैर्महोभरैरपि तत्त्वं परमस्य सूचितम् ।
अधिगन्तुमनाः स्वयं मनागनुयुङ्क्ते स्म स गोत्रनामनी || ६० ।।
श्रवणे दधदक्षमालिकां शिथिलीकृत्य स पद्ममासनम् ।
अमृतस्त्रपितैरिवाक्षरैरिदमाह स्म नृपं तपोधनः ॥ ६१ ॥
न कुलं न गृहं न बान्धवा नच वर्णाश्रमयन्त्रणापि नः ।
अवधूतपदे निषेदुषामभिधा सिद्ध इति स्फुटैव ते ॥ ६२ ॥
चतुरुत्तरषष्टिभेदतः प्रथिता या भुवने कला इति ।
यदि तासु कुतूहली भवानभिसम्पश्यतु सिद्धिमद्भुताम् ॥ ६३ ॥
इति वादिनि योगिनां वरे पुनरूचे नृपतिः कुतूहली |
उपदीकृतमिक्षुमायतं कमनीयं कलयन् करेण तम् ॥ ६४ ॥
अयमस्ति विमानधारको द्विरदो यः किल दार्षदः पुरः ।
इममिक्षुमसौ गिलत्विति स्मयमानः स तद्न्वमन्यत ६५ ।
स ततः पुरतः शिलागजः स्तनितस्निग्धगभीरबृंहितः ।
नरपालकराग्रवर्त्तिनं नवमिक्षं विचकर्ष शुण्डया ॥६६॥
कबलीकृतकोमलेक्षुणा करिणा तत्र विमानवर्त्तिना ।
जगृहे नृपकण्ठमालिकामणिहारोऽपि मृणालकोमल: ।। ६७ ।।
चकिताः स्तिमिताः पलायिता रुषिताश्चानुचरा महीपतेः ।
उपलाद्वरदस्य चेष्टितान्युपलभ्य क्षुभिताः प्रचुक्रुशुः ॥ ६८ ॥
न निकर्षचिकर्षिया कृतं न परीचिक्षिषया न गर्वतः ।
कुतुकेन तु वृत्तमेतदित्यसकृत् तं प्रणमन्नसान्त्वयत् ।। ६९ ।।