पृष्ठम्:शिवलीलार्णवः.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
शिवलीलार्णवे


जपदामकरो जटाधरः कलयन् काञ्चनवेत्रमुज्ज्वलम् ।
विचचार युवातिसुन्दरो भसितालेपनपाण्डरच्छविः ॥ ४४ ॥
करुणैकमयः कलानिधिः सुलभ: सुन्दरमूर्त्तिरुज्ज्वलः ।
अवलोकित एव देहिनामहरद् वाङ्मनसे स तापसः ॥ ४५ ॥
बहुश: कुणिमूकलोहला बधिरक्लीबजडान्धपङ्गवः ।
जटिलेन कृतार्थिता जनाश्चरणाम्भोजरजोऽनुषङ्गतः ॥ ४६ ।।
चरणोदकसेवया हरन्नपि वन्ध्यत्वमनेकधा स्थितम् ।
अवसन्नतरं हरश्चिरादनुजग्राह कुलं कुडुम्बिनाम् ॥ ४७ ॥
जरतस्तरुणान् प्रकल्पयन् युवभावं युवसु स्थिरं दिशन् ।
अपि वर्षगणानुवर्त्तिनीः शमयामास रुजः स भस्मना ॥ ४८ ॥
भसितं रसनासु निक्षिपन् कवयामास जडाननेकधा ।
विततार परां विरक्ततां विषयासङ्गमलीमसात्मनाम् ॥ ४९ ॥
अपि दुर्लभभैक्ष्यजीवनानकरोदाढ्यतरान् गिरैव सः ।
उदजीवयदुक्षणादपामुरगक्ष्वेलहतानपि क्षणात् ॥ ५० ॥
पतिवल्लभतां मृगीदृशां प्रमदासु प्रियतां विलासिनाम् ।
व्यतरद् भिषजां च मूलिका विविधप्रत्ययकारिणर्हिरः ॥ ११ ॥
घुटिकांशुकखपादुकारसलेपाञ्जनमुख्यसिद्धयः ।
तमनुस्मरतां शरीरिणां स्वत एव प्रचकाशिरे तदा ॥ ५२ ॥
ग्रह भूतपिशाचयक्षिणीगणकूश्माण्डविनायकादयः ।
अभिदुद्रुवुरादिसिद्ध इत्यभिधानाक्षरकीर्त्तनान्नृणाम् || ५३ ।।
स जगाद दृशोरगोचरः कथयन्नेव कथास्तिरोदधे ।
स्थविरस्तरुणोऽथ मुण्डितो जटिलश्चैष जनैरदृश्यत ॥ ५४ ॥
समदर्शयदुन्नतान् गिरीन् सविधे वारिनिधीन् वनानि च ।
स्तुवतां हसतां प्रधावतां मिषतामेव तदुन्ममार्ज सः ॥ ५५ ॥
कियदित्यभिदध्महेऽद्भुतं किमितीदं चरितं स्तुवीम वा ।
वयमप्युपदर्शयेम तद्यदि हि स्याम जगच्छरीरिणः ॥ ५६ ॥

२. तद् दार्शतम् . १. लोहलोऽस्फुटवाक