पृष्ठम्:शिवलीलार्णवः.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०७
पञ्चदशः सर्गः ।


न दिशो विदिशो न पादपा न समुद्राः सरितो न पर्वताः ।
न दिवा न निशा न चान्ततो जगदप्यैक्षत मध्यमं तदा ॥ ३१ ॥
अथ पाण्ड्यसुते समं जनैः शरणं जग्मुषि चन्द्रशेखरः ।
स्वकपर्दभवैः पयोधरैः स्थगयामास स वर्षतो घनान् ॥ ३२ ॥
पटमण्डपवद्व्यवस्थिताः परितस्ते मधुरां पयोमुचः ।
रुरुधुर्भुवि वारिसम्प्लवं जगृहुश्चोपरि निष्पतत् पयः ॥ ३३ ॥
पटगर्भगता इव प्रजाः कियदप्यश्रुतवर्षनिस्वनाः ।
व्यजनैरुपवीज्य लेभिरे नगरस्था मरुतं कथञ्चन ॥ ३४ ॥
अपि यत् प्रलयेषु वर्षितुं समरक्षन् सलिलं वलाहकाः ।
अभिवृष्य तदप्यशेषतो गृहधूमा इव खे चकाशिरे || ३५ ॥
प्रथमं पतितैः पयोभरैः परमम्भोधिरपूरि शोषितः ।
चरमं पतितं तु तत्पयो जगृहुः शैवकपर्दवारदाः ।। ३६ ॥
जलदा जलदैर्निराकृताः प्रतियान्तः परितो यथागतम् ।
वरुणेन न सम्बभाषिरे वरुणस्तैरपि लज्जया मिथः ।। ३७ ।।
परितो विनिवेशितान् घनान् प्रतिसंहृत्य निजान् महेश्वरः ।
परिदर्शयति स्म नागरैः प्रकृतिस्थं निखिलं महीतलम् ॥ ३८ ॥
चतसृष्वपि दिक्षु कूटवज्जलदान् न्यस्य ररक्ष यत् पुरीम् ।
तदुपक्रममभ्ययोजयत् स चतुष्कूटसमाख्ययापि ताम् ।। ३९ ॥
अतिमानुषदेवदानवं वरुणो वीक्ष्य तदद्भुतद्वयम् ।
मघवोदितमीशवैभवं मनसामन्यत दिक्प्रदर्शनम् ॥ ४० ॥
स समेत्य सुवर्णपद्मिनीसलिलस्नानगलज्जलग्रहः ।
कनकाम्बुरुहैस्तदुद्भवैः कलयामास महेश्वरार्चनम् ॥ ४१ ॥
स्तुतिभिर्बहुभिः प्रसादयन् स महेशं शफरेक्षणामपि ।
कृतपाण्ड्यनृपालसौहृदः कृतकृत्यः स्वपुरं पुनर्ययौ ॥ ४२ ॥
अथ जात्वभिषेकपाण्ड्यभूरमणे शासति राज्यमूर्जितम् ।
समदृश्यत सिद्धवेषभृत् सह शिष्यैर्मधुरापुरे हरः ॥ ४३ ॥

'दृक्प्रदर्शनम्' इति कपुस्तके पाठः.