पृष्ठम्:शिवलीलार्णवः.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
शिवलीलार्णवे


चिरसम्भृतचातकोदरज्वलनोज्जासनलब्धजन्मभिः ।
विततैरिव धूममण्डलैर्वियदापूरितमम्बुदैर्नवैः ॥ १७ ॥
निबिडे चरमाङ्गमण्डले निपतन्ती जलदस्य चन्द्रिका |
स्थगिता चिरमक्षरत् क्षितौ कणशः किं करकोपलात्मना ॥ १८ ॥
अतिथेरपि भाग्यतो भवत्यभिवृद्धिर्भवने कुडम्बिनाम् ।
कलहंसकुले विनिर्गते कथमासन् कमलाकरश्रियः ॥ १९ ॥
विरमत्कमलोत्पलं सरो व्यरुचत् पुष्पितकैतकैस्तटैः ।
गजवाजिसमाकुलं बहिर्भवनं राज्ञ इवान्ततोऽधनम् ॥ २० ॥
कमलैर्विरतं कलानिधिः कलहंसाश्च न गोचरे दृशाम् ।
शनिरास्त ककारमस्तके समये तत्र कलापिनं विना ॥ २१ ॥
महिषा जहृषुर्मदागमे महिषैस्तुल्यधियश्च कर्षकाः ।
अभवन्तु न हंसगृह्य इत्ययशोनैल्यमिवावहद् घनः ॥ २२ ॥
बभुरुल्लसितास्तटिल्लता जगदन्धकरणीषु रात्रिषु ।
पाथ चारयतोऽभिसारिकाः प्रसवेषोः करदीपिका इव ॥ २३ ॥
परिलुप्तरवीन्दुतारके समये सन्तमसावृते सदा ।
द्युनिशोरुपदेशदेशिका युवतीनां गृहचक्रवाकिकाः ॥ २४ ॥
स्तनिते स्तनिते पयोमुचां कलकेकामुखराः कलापिनीः ।
अभिलक्ष्य भृशं ललज्जिरे रभसालिङ्गितवल्लभाः स्त्रियः ॥ २५ ॥
स्थगितार्ककरैः पयोधरैः परिलुप्तप्रसवासु वल्लिषु ।
पवनापहृताः पयःकणा मदनस्यास्त्र पदेऽभिषेचिताः ॥ २६ ॥
नवतोयनिपातहर्षितां नगरीं तामवलोक्य कुप्यतः ।
अथ ते वरुणस्य शासनादतिमात्रं ववृषुः पयोमुचः ॥ २७ ॥
परमां सखितां प्रचेतसः प्रतिपेदेऽग्निसखः समीरणः ।
समयानुगुणैव शत्रुता सखिता वा त्रिदिवौकसामपि ॥ २८ ॥
परिपाटितकाननद्रुमाः परिकृष्टेभगवाश्वमानवाः ।
सरितः परितो जजृम्भिरे विकटावर्त्ततरङ्गसङ्कुलाः ॥ २९ ॥
गणशः पशुपक्षिमानवान् गणशो ग्रामपुराश्रमालयान् ।
पवमानसखाः पयोमुचः पणबन्धादिव पर्यपातयन् ॥ ३० ॥


१. अन्ततः अन्तर्भागे,