पृष्ठम्:शिवलीलार्णवः.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
शिवलीलार्णवे


यदवस्त यदाजत्रौ यदभुत यदालिपत् ।
यद् दधौ च स सर्वे तच्छिव एव निवेदितम् || || ८४ ॥
दिक्षा शिवलिङ्गेषु शुश्रूषा शिववैभवे ।
चिकीर्षा शिवपूजासु शिशोरेवास्य कौतुकम् ॥ ८५ ॥
रत्नदस्य विभोर्लिङ्गं रत्नैरेवाभ्यपूजयत् ।
अधमर्णं स्वमात्मानं स जानन् शाश्वतीः समाः ॥ ८६ ॥
देवस्तस्मै शिलास्वेव ददौ रत्नानि कानिचित् ।
सर्ववस्तुषु रत्नानि स तस्मै समुपाहरत् ॥ ८७ ॥
वासवो जातुचित् कर्त्तु वार्षिकं कमलार्चनम् ।
प्राप्तस्तेन कृतां शम्भोः पश्यन् पूजामलज्जत ॥ ८८ ॥
कथान्तरे कदाचित् स कथयामास पाशिने ।
भक्तवात्सल्यमीशस्य भक्तिं पाण्ड्यशिशोश्च ताम् ॥ ८९ ॥
परीक्ष्य तद् द्वयमपि शक्रभाषितं ततः शिवं स्वयमपि तत्र सेवितुम् ।
जलग्रहामयमृदितो जलेश्वरः पुरं निजं पुनरगमत् सविस्मयः ।। ९०

कस्तूरीहिमवालुकाहिमपयः श्रीगन्धगोरोचना-
काश्मीरैरनुलेपितः पशुपतिः पाण्ड्यात्मजेनासकृत् ।
कस्तूरीघनसारसुन्दर इति ख्यातिं तदादि श्रितो
येनाद्यापि समीहते तनुभृतां तामेव सेवां पराम् ॥ ९१ ॥

इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते

शिवलीलार्णवे चतुर्दशः सर्गः ।


अथ पञ्चदशः सर्गः ।

सलिलाधिपतिप्रचोदितः सरिदीशो मधुराजिघृक्षया । ववृधे विजितोऽपि सन् पुरा समये कस्य न सम्भवेद् भ्रमः ॥ १ ॥ समभिद्रवता शनैः शनैः सलिलानां निधिनातिभीषिताः । शरणं नृपतिं ययुः प्रजाः स च हालास्यनिकेतनं हरम् ॥ २ ॥


  • 'वराम्' इति खपुस्तके पाठः