पृष्ठम्:शिवलीलार्णवः.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
चतुर्दशः सर्गः ।


ये जातिभेदा विविधा जात्याभासाश्च ये पुनः ।
ये रागकृत्रिमाः केचिद् ये च सर्वात्मकृत्रिमाः ॥ ७० ॥
यदा धार्यं यथा धार्ये यैर्धार्यं यत्र वा पुनः ।
यथा क्रयो विक्रयो वा यथा दानप्रतिग्रहौ ॥ ७१ ॥
यश्चैषां रक्षणोपायो यः परीक्षाविधिक्रमः ।
या चाप्येषामुपनिषदध्यात्ममधिदैवतम् ॥ ७२ ||
चातुर्वर्ण्यव्यवस्था या या स्त्रीपुंसविकल्पना !
जीवाजीवविभागो यो या मर्त्यामरभोग्यता ॥ ७३ ॥
ये च दौर्लभ्यसौलभ्ये येषामौत्पातिकी जनिः ।
यदौषधोपयोगित्वं याश्च संज्ञाः परश्शताः ॥ ७४ ॥
शक्तः को वेदितुमिदं सर्वमेकं तमन्तरा ।
रत्नं समस्तदेवानां रत्नसानुशरासनम् ॥ ७५ ।।
नप्तायं देवपाण्ड्यस्य नन्वसौ पार्थिवात्मजः |
अर्हतीदं रत्नजातममूल्यं मदुपाहृतम् ॥ ७६ ।।
अभिनिर्वर्त्य कोटीरमभिषिच्य च पार्त्थिवम् ।
राज्ये स्वस्थीकृते दत्त रत्नमूल्यं यथोचितम् ॥ ७७ ॥
इत्युदीर्य मणीन् दिव्यान् दन्वा तेभ्यः स काङ्क्षितान् ।
सद्यस्तिरोदधे तेषां समक्षं सपरिच्छदः ॥ ७८ ॥
चिहेन तेन ते सर्वे चिन्तयन्तस्तमीश्वरम् ।
प्रशशंसुः शिशोर्भाग्यं बाष्पगद्गदया गिरा ॥ ७९ ॥
सद्यो निर्माप्य ते मौलिं शास्त्रदृष्टेन वर्त्मना ।
अभ्यषिञ्चन् नृपं बालमखिला राजमन्त्रिणः ॥ ८० ॥
दृष्ट्या दयार्द्रयैवायं देवदेवस्य शूलिनः ।
अभिषिक्तः पुरा पश्चादभ्यषिच्यत मन्त्रिभिः ॥ ८ ॥
तस्याभिषेकपाण्ड्याख्या तदादि भुवि पप्रथे ।
ईदृशं भक्तसौलभ्यभिन्दुचूडस्य देहिषु ॥ ८२ ||
यदचेष्टत यत्प्राह स बालः पाण्ड्यभूपतिः ।
तत्सर्वं वरिवस्येति जग्राह मधुरेश्वरः ||९३ ||