पृष्ठम्:शिवलीलार्णवः.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
शिवलीलार्णवे


सर्वदा मृगयासक्तः स जातु विपिनान्तरे ।
सञ्चरन् राजशार्दूलः शार्दूलेन निपातितः ॥ ५७ ॥
तदेव रन्ध्रमासाद्य तस्य भोगवधूसुताः ।
परिलुण्टितसर्वस्वाः पलायन्त ततस्ततः ॥ ५८ ॥
कुलवृद्धास्ततस्तस्य कुमारं पञ्चवार्षिकम् ।
अभिषेक्तुं पदे तस्मिन्नन्योन्यं सममन्त्रयन् ॥ ५९ ॥
मकुटेनाभिषेक्तव्यमभिषेकेण सुस्थिरे ।
राज्ये रत्नानि सम्पाद्य मकुटं कर्तुमीश्महे ॥ ६० ॥
अन्योन्याश्रयदुस्स्थोऽयमभिषेकोऽस्य भाति नः ।
न मिथ्यानुग्रहः शम्भोर्न विद्मः पुनरायतिम् ॥ ६१ ॥
इति चिन्तयतां तेषामग्रतः पाण्ड्यमन्त्रिणाम् ।
आविरासीत् तदा शम्भुराश्रितो वैश्यविग्रहम् ॥ ६२ ॥
स भृत्यैर्बहुभिर्वीतः समृद्ध्या परया ज्वलन् ।
रत्नानां वणिगस्मीति राजभृत्यानुपासदत् ॥ ६३॥
से भृत्यैराहूतां रत्नपेटीमुद्घाटयन् पुरः ।
वैदग्ध्यं रत्नशास्त्रेषु व्याकुर्वन्नाददे गिरम् ॥ ६४ ॥
सर्वे पश्यन्ति रत्नानि सर्वे बिभ्रति च स्वयम् ।
तत्त्वं तु ब्रह्मण इव तेषां नावैति कश्चन ॥ ६५ ॥
पशुभावं प्रपन्नस्य पाकशासितुरध्वरे ।
वलस्य देहधातुभ्यो वराद्धातुर्यदुद्भवः ॥ ६६ ॥
या वीर्याच्चन्द्रचूडस्य रत्नजातिः पुराजनि ।
या च यज्ञवराहस्य फेननिष्यन्दबिन्दुभिः ॥ ६७ ॥
या दृङ्मलान्महेन्द्रस्य या दधीच्यस्थिमण्डलात् ।
ये चाकरा भुवि स्वर्गे पाताले च पृथग्विधाः ॥ ६८ ॥
या छाया याकृतेर्निष्ठा यः स्पर्शो यच्च गौरवम् ।
यन्मानं यानि मूल्यानि ये दोषा ये च वा गुणाः ॥ १९ ॥

१ इतः श्लोकद्वयं न लिखितं खपुस्तके.