पृष्ठम्:शिवलीलार्णवः.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
चतुर्दशः सर्गः ।


ततो व्याहृतयस्ताभ्यो गायत्री विश्वपावनी ।
ततो वेदाः सोपभेदास्तेभ्यः सर्वे च वाङ्मयम् ॥ ४४ ॥
प्रभावं तस्य तारस्य ब्रूयां शब्देन केन वः ।
तत्प्रसूता गिरः सर्वास्तव्याप्या व्यापकस्तु सः ॥ ४५ ॥
एकमातृप्रसूतानामैकमत्यप्रवर्त्तिनाम् ।
स्ववैमत्येन वैमत्यं शास्त्राणां बालिशा जगुः ॥ ४६ ॥
अस्ति यत् परमं ज्योतिरस्मिन् लिङ्गे तिरोहितम् ।
तदेव सकलैः शब्दैस्तात्पर्यविषयकृतम् ॥ ४७ ॥
अङ्गानि मन्त्रास्तन्त्राणि शास्त्राणि निगमा अपि ।
अन्ततो लोकगाथा अप्यत्रैवायान्ति विश्रमम् ॥ ४८ ॥
इमा गिरः समस्ताश्च रुद्राय स्थिरधन्वने ।
इति ब्रुवाणा वाणी वः प्रमाणमकुतोभवा ॥ ४९ ॥
सर्वानुग्राहिणी शक्तिः शम्भोरनतिरेकिणी ।
तामप्रपद्य तत्तत्त्वं न शब्दैरवधार्यते ॥ ५० ॥
आरोहन्त इव स्तोकमवरोहन्ति भूयसा ।
जानन्त इव मुह्यन्ति तत्पादविमुखा जनाः ॥ ५१ ॥
सा वक्ति सा वाचयति सा चेतयति सा चितिः ।
सा गतिः सा गमयति सैवेयं मीनलोचना ॥ ५२ ॥
तामनन्याः प्रपद्यध्वं तपोदानाध्वरादिभिः ।
वाङ्मयं सर्वमेकस्थं ततो वः प्रतिभाम्यति ।। ५३ ॥
अनुगृह्यैवमीशस्तान् मस्तन्यस्तेन पाणिना |
मिषतामग्रतस्तेषां मूललिङ्गे तिरोदधे ॥ ५४ ॥
अथ कालेन महता वीरपाण्ड्यो महापतिः ।
भूयसस्तनयान् लेभे भोगस्त्रीषु दुराशयान् ॥ ५५ ॥
समाराध्याथ बहुधा साम्बं हालाम्यवल्लभम् ।
देवो वंशकरं पुत्रं देव्यां समुदपादयत् ॥ ५६ ॥


१. 'इमा रुद्राय स्थिरधन्वन गिरः' यजु:.