पृष्ठम्:शिवलीलार्णवः.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
शिवलीलार्णवे


इति प्रसादितस्तेन दर्शितश्च महास्वनिम् ।
जग्राह विविधं हेम भित्त्वा चण्डायुधेन सः ॥ ३१ ॥
नभश्चरहयाकृष्टैर्नरदेवः परश्शतैः ।
मनोभिरपि दुष्प्रापम॑नोभिस्तदुपाहरत् ॥ ३२ ॥
स चामीकरवर्षेण सर्वं प्रकृतिमण्डलम् ।
पालयामास नृपतिः पाण्ड्यो यावदवग्रहम् ॥ ३३ ॥
तथा ववर्ष कनकं भूयोभूयः स भूतले ।
अवग्रहं यथा नित्यमाचकाङ्क्षुः शरीरिणः ॥ ३४ ॥
स कान्तिमत्यां प्रेयस्यां चन्द्रमौलेरनुग्रहात् ।
पुत्रं यथार्थनामानं वीरपाण्ड्यमविन्दत ।। ३५ ।।
विन्यस्य सकलां पृथ्वीं वीरपाण्ड्ये महीपतिः ।
प्रविवेश परं धाम परमानन्दलक्षणम् ॥ ३६॥
तस्मिन् भक्त्या च पूजाभिस्तपसा चाम्बिकापतेः ।
पुत्रादपि विशेषेण पौत्रे प्रीतिरवर्धत ॥ ३७ ॥
जिज्ञासमानाः श्रुत्यर्थं सेवया सुन्दरेशितुः ।
कण्वादयो मुनिवराः कदम्बवनमाययुः ॥ ३८ ॥
तपोभिः कर्मभियानैर्दानेरपि पृथग्विधैः ।
निन्युः संवत्सरं पूर्ण नियतास्ते शिवान्तिके ॥ ३९ ॥
प्रसन्नः सुन्दरेशोऽथ भक्तिलेशवशंवदः ।
विप्ररूपेण विप्रेभ्यो विववार निजं वपुः ॥ ४० ॥
उपसन्नः स मुनिभिः सन्निधौ सुन्दरेशितुः |
व्याघ्रचंर्मासनो वेदान् व्याख्यातुमुपचक्रमे ॥ ४१ ॥
अस्ति वाग्ब्रह्मं तत् किञ्चिदखिलोत्पत्तिकारणम् ।
प्रणवोङ्कारतारादिपर्यायगणघोषितम् ॥ ४२
तदेकधा त्रिधा विप्राश्चतुर्धा पञ्चधा स्थितम् ।
अपि द्वादशधा भिन्नमागमेषूपदिश्यते ॥ ४३ ॥


२. अनोभिः शकटै:.