पृष्ठम्:शिवलीलार्णवः.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९
चतुर्दशः सर्गः ।


पल्लवं जीर्णपत्रं च प्रत्यभिज्ञातुमक्षमाः ।
मेषु सहकारेषु खिद्यन्ते यत्र कोकिलाः ॥ १८ ॥
चामीकरैकरूपषु सर्वेषु कुसुमेष्वपि ।
व्युत्पन्ना एव यत्रत्या गन्धेषु न मधुव्रताः ॥ १९ ॥
स तं प्रदक्षिणीकृत्य सर्वदेवालयं गिरिम् ।
तस्थौ पाण्ड्यः पुरोभागे तस्य काङ्क्षन्ननुग्रहम् || २०
उदासामास हेमाद्रिरुग्र/पाण्ड्येऽपि पार्थिव ।
किं चकारार्णवो रामे निसर्गोऽयं जडात्मनाम् ॥ २१ ॥
प्रकृत्यापि विनीतस्य पाण्ड्य योग्रस्य दण्डिनः |
अभिख्यानुगुणं वृत्तमान्तरं करणं तदा ॥ २२
माहेश्वरं स तं दण्डं मकरद्वयलाञ्छितम् ।
आवर्त्त्य रुषितो वेगादाजधान मुरालयम् ॥ २३ ॥
स्थिरधन्वेति भूतेशः श्रूयते येन धन्वना ।
चकम्पे स हतस्तेन चामीकरमयो गिरिः ॥ २४ ॥
तापिते तपनालोकैस्ताडिते तेन दण्डतः ।
आसीद् दिष्ट्यात्र वैपुल्यमसम्बाधाय नाकिनाम् ॥ २५ ॥
कम्पिते दण्डघातेन काञ्चने तत्र भूधरे ।
पौलस्त्यतुलितस्याद्रेः परिलुप्तमिव ह्रिया ॥ २६ ॥
हालास्यनाथतनयमवबुध्य ततः स तम् ।
स्वं रूपं दर्शयन्नाह सुविनीतं सुरालयः ॥ २७ ॥
अज्ञासिषमहं न त्वामास्थितः स्थावरं वपुः ।
जानन्निह् जगत्तत्त्वं जातु न क्रोधुमर्हसि ॥ २८ ॥
चूर्णीकुर्या अपि त्वं मां चापं चेत् पितुरेव ते
स्वामिनस्तस्य*सा हानिः स्वस्य कि परिहीयते ॥ २९ ॥
अस्ति मे बहुशः स्वर्णमत्यल्पमिदमुच्यते ।
अहमेव तवास्मि स्वं मनोहत्योपयुङ्क्ष्व माम् ॥ ३० ॥


१. मनोहत्य यावत्तर्षनिवृत्ति,

+ 'वीरपाण्ड्ये' इति खपुस्तके पाठ.

  • 'ते' इति खपुस्तके पाठः,