पृष्ठम्:शिवलीलार्णवः.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
चतुर्दशः सर्गः ।


तत्कोदण्डोन्मुक्तनाराचधारासद्यःकृत्तभ्रश्यदश्वेभयोधम् ।
हाहाकुर्वत्सिद्धगन्धर्ववर्गं शौनासीरं तत्र नासीरमासीत् ॥ ८४ ॥
मर्त्त्या युद्धे पातिता देवभावं लब्ध्वा देवीर्घावमाना वरीतुम् ।
धावद्देवस्त्रैणमुद्भ्रान्तपालं* चक्रुः स्वर्गे सम्प्रवृत्तापवर्गम् ॥ ८५ ॥ ?
अस्त्रैरस्त्रं वारयन्नुग्रपाण्ड्यः शस्त्रैः शस्त्रं शस्त्रिणश्चावभिन्दन् ।
जातस्तातस्याक्षिकोणात् तृतीयाज्जज्वालोच्चैर्जातवेदा इवान्ते ॥ ८६ ॥
पश्यन् पाण्ड्यो वज्रमिन्द्रेण दत्तं प्रायुङ्क्तो ग्रं चक्रमीशा दवाप्तम् ।
तद् दम्भोलिं स्तम्भयत् तस्य मौलिं भित्त्वा भूयः पाणिमस्याजगाम ||८७ ॥
भग्ने शक्रे भग्नकोटीरकोटौ धावत्यग्रे मुक्तकेशं सुधाशाः ।
चेलुर्विष्वक् चण्डवातावधूता दूरे दूरे तूलपिण्डा इवाभ्रे ॥ ८८ ॥

ऋन्दद्गन्धद्विषमपसरत्सैन्धवोधूतयोध-
प्रत्युद्धारव्यसनविमुखापेतपादातजातम् ।
धावद्देवप्रवरसमरोदन्तयाथार्थ्यबोध-
भ्राम्यत्पौरं नगरमभवज्जर्जरं निर्जराणाम् ॥ ८९ ॥

इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते

शिवलीलार्णवे त्रयोदशः सर्गः ।


अथ चतुर्दशः सर्गः ।

तस्मिन् कुमारे मीनाक्ष्यास्तथा शासति मेदिनीम् ।
ताराग्रहाणां पञ्चानां जाता जात्वपि वक्रता ॥ १ ॥
अवागृहत ते वृष्टिमासेतोराहिमाचलात् ।
जलदुर्भिक्षतश्चात्र जग्ले जानपदैर्जनैः ॥ २ ॥
सोमवारव्रतेनाथ सोमसुन्दरमीश्वरम् :
स समाराधयाञ्चक्रे शासनात् कुम्भजन्गनः ॥ ३ ॥
तस्य चिन्तयतः स्वप्ने तरुणेन्दुशिखामणिः ।
आविर्भूय दयासिन्धुरनुजग्राह पार्थिवम् ।। ४ ।।

'बालम् इति खपुस्तके पाठः