पृष्ठम्:शिवलीलार्णवः.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
शिवलीलार्णवे


मर्यादाब्धेर्मा विलोपीति शक्तिं प्रत्याहृत्य प्रज्वलन्तीं स भूयः ।
तत्संसिद्धां तावतीमप्यदत्त क्षोणीं देवः सुन्दरेशाय सद्यः ॥ ७२ ॥
आकैलासादा च लङ्कोपकण्ठाज्जाते दैवाज्जात्वनावृष्टियोगे ।
राज्ञः सर्वान् मेलयन् पर्यपृच्छद् राजा पाण्ड्यः कुम्भयोनिं विधेयम् ।। ७३ ॥
तस्यादेशादर्चनाभिः प्रणामैस्ते ते वृष्टिं देवराजं ययाचुः ।
दैन्यं त्वेतन्मीननेत्रात्मजस्य स्वान्ते जातु स्वादुतां नाबभार ॥ ७४ ॥
अभ्यर्णेऽसौ जातुचिच्चन्दनाद्रेराखेटार्थं पर्यटन् पाण्ड्यदेवः ।
स्वेच्छासीनान् पुष्कलावर्तकादीन् शृङ्गोत्सङ्गे तस्य मेघानपश्यत् ॥ ७५ ॥
कः सुत्रामा कात्र याच्ज्ञा वराके वृष्टिर्लभ्या विक्रमेणेति देवः ।
मत्वा भृत्यैर्ग्राहयन्नम्बुवाहान् कारागारे वासयामास बद्धान् ॥ ७६ ॥
केचिन्मेघास्तत्र चोद्यानपालैः केचिच्छेकान् पालयद्भिर्मयूरान् ।
आकृष्यन्त स्वैरमौरक्षकाणां सौहार्देन द्विस्सकृद् गूढमहाम् ।। ७७ ॥
नश्यद्गर्जा लुप्तबिद्युद्विलासाः संशुप्यन्तः साध्वसेनाम्बुवाहाः ।
धूलीजालैर्धूसरा धूमशेषाम्तत्रावात्सुः शासनात् तस्य राज्ञः ॥ ७८ ॥
आपातालादा च सप्तर्षिलोकादम्भोभिर्ये विश्वमाप्लावयन्ते ।
तानम्भोदांस्तत्र रुद्धान् निशम्य क्रुध्यन्निन्द्रस्तेन योद्धुं प्रतम्थे ॥ ७९ ॥
ज्यानिर्घोषच्छादिताशावकाशं बाणासारध्वस्तहस्त्यश्वयोधम् ।
रक्तस्रोतःपातरक्तं समन्ताज्जज्ञे युद्धं तस्य चाखण्डलस्य || ८० ॥
चापोन्मुक्तैः सायकौघैरमोघैर्वैधं वेधं व्योमयानादमर्त्त्यान् ।
यूथंयूथं पातयन् कौतुकेन श्येनम्पातामाचचारेव वीरः ॥ ८१ ॥
येऽवागृह्णन् खेचरा वृष्टिमुर्व्यां तेषामेवोज्जासयन्नङ्गमङ्गम् ।
मर्माविद्भिर्मार्गणैरुग्रपाण्ड्यश्चक्रे वृष्टिं मज्जमांसाविस्रम् || ८२ ॥
उन्मर्यादैरुत्पतद्भिस्तदस्त्रैः कीर्णे विष्वक् कण्टकैघैरिवाभ्रे।
स्थातुं यातुं स्पन्दितुं चाप्यशक्ता तस्तम्भेऽसौ वाहिनी जम्भहन्तुः ॥ ८३ ॥

१. अयं श्लोकः खपुस्तके नास्ति. २. छेकान् गृहाश्रितान् . ३. नगररक्षिणाम् . ४. श्येनपातोऽस्त्यस्यां क्रीडायामिति इयैनम्पाता ताम्. 'घञः सास्यां क्रियेति जः' (४-२-५२) इति ञः. ५. जासिनिप्रहणेति (२-३-५६) षष्टी.