पृष्ठम्:शिवलीलार्णवः.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५
त्रयोदशः सर्गः ।


पृथ्वीं सर्वामर्पयित्वा कुमारे पृथ्वीं कीर्त्तिं केवलं गृह्णतः स्वाम् ।
सार्धं देव्या वत्सराणां सहस्राण्येवं षष्टिः षट् च तस्य व्यतीयुः ।। ५८ ॥
इत्थं पाल्या भूमिरित्थं विजेया दृप्ता इत्थं वर्त्तितव्यं त्वयेति ।
आदिश्योग्रं दम्पती मूललिङ्गे मीनाक्ष्यां च प्रापतुस्तौ प्रवेशम् ।। ५९ ।।
तौ मीनाक्षी सुन्दरेशात्मनाथच्छन्नौ किञ्चित् प्रत्यहं सेवमानः ।
चक्रे राज्यं नामयन् राजवंश्यानुग्रपश्यैः शासनैरुग्रपाण्ड्यः ॥ ६० ॥
ईजे शम्भुं यच्छतेनाश्वमेधैर्यच्चाभुङ्क्त स्वर्गभोगान्स भूमौ ।
तेनासूयां तत्र शक्रो बबन्ध प्रायेणाय पामराणां स्वभावः ॥ ६१ ॥
आक्रम्याम्भस्सम्प्लवै राजधानीमुन्मर्यादैरुग्रपाण्ड्यस्य राज्ञः ।
राष्ट्रं चास्य स्वीकुरुष्वेति शक्रो नेदीयांसं दक्षिणाब्धि न्ययुङ्क्त ॥ ६२ ॥
अर्धे रात्रेरप्रसक्ते कथञ्चिद् वर्षे वाते दुर्दिने वा क्षणेन ।
सन्नह्यद्भिः सर्वतो वीचिसङ्घैः पारावार: स्वात् पदादुच्चचाल ।। ६३ ॥
एकैकोर्मिस्पन्दमात्रादपि क्ष्मां क्रोशं क्रोशद्वन्द्वमप्यावृणानः ।
भीमैर्घोषैिर्भीषयन्नम्बुराशिग्रीमं ग्रामं मज्जयन् निर्जगाम || ६४ ॥
उच्चैरुच्चैरुत्पतन्तः पतन्तो घ्नन्तो जन्तून् गण्डशैलान् क्षिपन्तः ।
आवृण्वानाः सैकतैरद्रिकूटानभ्यक्रामन्नूर्मयो वारिराशेः ॥ ६५ ॥
वल्गन्तोऽग्रे दुर्ग्रहा वीचिकानां जातोत्साहा जन्तवः सागरीयाः ।
व्यादायास्यं व्याघ्रसिंहद्विपादीन् वन्यान् सत्त्वान् लीलयैवाग्रहीषुः ॥ ६६ ॥
इत्थं पुर्या योजने योजनार्धे यावत् सिन्धुर्नाजिहते निशीथे ।
तावत् स्वप्ने बोधितस्तां प्रवृति सूक्त्या शम्भोर्जागरामास देवः ॥ ६७ ॥
आरुह्य द्वागभ्रमातङ्गकल्पं क्रुद्धो देवः कुञ्जरं किञ्चिदुच्चैः ।
पाणौ कुर्वन् शक्तिमीशेन दत्तां पाण्ड्यः पारावारमभ्युज्जगाम ॥ ६८ ॥
शैलेनेवोत्सर्पता कज्जलानां व्योम्नेवाघो धावता सन्निप" ।
सोऽभूत् तेन स्रोतसा वारिराशेर्हृष्टो देवः स एवाथ रुष्ट ।। ६९ ॥
नायं कालः कौतुकं कर्तुमस्मिन् नश्यत्स्वेवं प्राणिषूच्चावचेषु ।
इत्यालोच्य प्रज्वलन् प्रज्वलन्ती पाण्ड्यः शक्ति पातयामास सिन्धौ ॥ ७० ॥
शीत्कुर्वाणा सा विशन्ती समुद्रे सर्वे पाथः सम्भ्रमत्कूर्मनक्रम् |
उच्छ्छ्रासेनैकेन यान्ती पिबन्ती जह्रे भूमेः प्राक्तनं चार्द्रभावम् ॥ ७१ ॥