कारकविभक्त्यधिकार: ६७
१७६. प्रतिपाद्यतया हि सर्वो लोक उपनिषदामन्तर्निविष्टः ।
१७७. वैधस्यामस्यां१ सृष्टयां नानर्थकं किञ्चिदस्ति । अर्कपत्त्राण्यपि
तीव्रविषाण्युपयोगे नीयन्ते का कथेतरेषाम् ।
१७८. अद्यत्वे सर्वत्र कृतकता लक्ष्यते । यत्सत्यं मानव्य इमाः प्रजाः
सहजाच्चरिताद् दूरं वियुक्ताः ।
१७९. व्यसनिनो मूढाः कुलाङ्गाराः२ कुमारकुलटाभिर्मनोमृगं बध्नन्ति ।
१८०. पुस्तकभारवहनेऽपि जिह्रियतीदानीन्तनाश्छात्राः ।
१८१. दिष्टया मत्पतिः साम्प्रतिकेभ्य एभ्यो व्यवहारेभ्यो विरुद्धोऽस्ति।
१८२. इदानीं वयं पदाति गन्तुं न प्रभवामः । महान्नोऽध्वखेदः ।
१८३. प्राचार्यस्य भगवतः पाणिनेः सूक्ष्मेक्षिकायां सर्वज्ञकल्पतायां च
परं विस्मये।
१८४. यदीच्छसि वशे कर्तुं जगदेकेन कर्मणा । - परापवादसस्येषु
गौश्चरन्ती निवार्यताम् ॥
१७६. उपनिषत्स्वन्तर्निविष्ट इत्येव । एष व्यवहारः ।
१७७. उपयोगं नीयन्त इति नयतेर्द्विकर्मकत्वान्नियता वाक्सरणिः ।
१७८. वियुक्ता इत्यत्र कर्मकर्तरि क्ते चरितादिति पञ्चमी साध्वी।
शुद्धे कर्मणि तु क्तेऽनुक्ते कर्तरि तृतीयया चरितेनेति स्यात् ।
१७९. कुमारकुलटासु बन्धनाधारभूतास्विति सप्तमी साधुः । यथा
शिवके बध्नाति गाम् । करणत्वविवक्षायां तु क्व बध्नन्तीत्या-
काङ्क्षा न शाम्यति।
१८०. पुस्तकभारवहनेनेति हेतौ तृतीया प्रयोक्तव्या । हेतुविवक्षा चात्र
व्यवस्थिता शिष्टानामिति यत्र तत्र तत्प्रयोगाः प्रमाणम् ।
१८१. विरुद्ध इत्यत्र कर्तरि क्तो दुर्लभः । साम्प्रतिकैरेतैर्व्यवहारैः समं
विरोधवानित्येवमुपन्यासः कार्यः । एतान्व्यवहारान् विरुण-
द्धीत्येवं वा न्यसनीयम् ।
१८२. पदातयः (सन्तः) इति प्रथमाबहुवचनं प्रयोक्तव्यम् । स्वयं ह
रथेन याति, उपाध्यायं च पदातिं गमयतीति काशिकायां प्रयोगः।
१८३. सूक्ष्मेक्षिकया सर्वज्ञकल्पतया चेति हेतुतृतीयया वक्तव्यम् ।
१८४.वारणार्थानामीप्सित इति परापवादस्येभ्य इति पञ्चम्या निर्देशः
साधुः । भवति च पाठान्तरम्-परापवादसस्येभ्यो गां चरन्तीं
निवारयेति ।१. वेधस श्यमिति वैघसी, तस्याम् ।
२. कुमारी चासौ कुलटा च । कुमारः श्रमणादिभिरिति समासः ।