६६ शब्दापशब्दविवेके
१६९. विदेशात् परावृत्तं भ्रातर प्रति तत्तद्विषयकान्कांश्चित्प्रश्नान-
कार्षम् ।
१७०. वसुमित्रो मत्तः काशिकाविवरणं न्यासमग्रहीत्, तत्परिवर्ते च
शब्दकौस्तुभं प्रादात् ।
१७१. न जाने जीवननौका केन घट्टेन सह प्रह्रियेत ।
१७२. ममैव हृदयं तावत्स्वार्थपरतायै प्रमोदासक्त्ये च मां धिग-
कार्षीत् ।
१७३. इमे सुधियः पद्यगुम्फने न तथाऽभ्यस्ता यथा गद्यनिबन्धने ।
१७४. करुणानिधे प्रभो ! अहं हि ते शरणमागतोऽस्मि । किमिति
नाभ्युपपद्यसे१ माम् ?
१७५. मासस्यावकाशमादाय स गृहं गतो बन्धून्द्रक्ष्यामि तैः संवत्स्यामि
चेति ।
।
१६९. म्राता प्रश्नविषयो न । प्रतिशब्दप्रयोगे तु तथा (विषय इति)
नियतं प्रतीयते । इष्यते च सामीपिकमधिकरणम् । तेन भ्रातरि
प्रश्नानिति साध । अस्ति भवत्सु मे प्रश्न इत्यस्य भवतः पृच्छामी-
त्यर्थात् । तवैव पितरि प्रश्न इत्युपनिषत्सु बहुलं प्रयोगदर्शनाच्च।
१७०. तत्परिवर्ते इत्यपनीय तस्मात् प्रति इति प्रयोज्यम् । प्रतिशब्दः
कर्मप्रवचनीय: प्रतिदानमाह । तद्योगे च प्रतिनिधिप्रतिदाने च
यस्मादिति सूत्रेण पञ्चमी ।
१७१. प्रह्रियेत प्रहृता भवेदिति कर्मकर्तरि प्रयोगे सहशब्दयोगे तृतीया
साध्वी । शुद्धे कर्मणि तु सहशब्देन नार्थः । अनुक्त कर्तरि तृती-
ययाऽभीष्टार्थावगतेः।
१७२. हेतौ तृतीयापञ्चम्यौ साधू स्यातामिति स्वार्थपरतया स्वार्थपर-
ताया वेत्यादि वक्तव्यम् । प्रकृते तादर्थ्यं नास्तीति चतुर्थी दुर्लभा।
१७३. अभ्यस्ता इत्यत्र कर्तरि क्तो दुर्लभः । शिष्टानुग्रहाभावात् । सकर्म-
कश्चाभिपूर्वोऽसिः । तेन पद्यगुम्फनमभ्यस्तवन्त इत्यादि वक्तव्यम् ।
१७४. त्वां शरणमित्येव । शरणं रक्षितारमाह न तु रक्षाम् । बाढं
शरणे साधुः शरण्य इत्यत्र शरणं रक्षणमाह । गत्यर्थकधातूनां
प्रयोगे शरणशब्दस्त्रातारमेवाह न त्राणम् ।
१७५. मासमवकाशमित्येव । अत्यन्तसंयोगे द्वितीया।१. अनुगृह्णासि ।