पृष्ठम्:शब्दापशब्दविवेकः.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कारकविभक्त्यधिकारः ६५


१६०. न वयमनृतिकस्य ते वचसि श्रद्दध्मः, कदाचिद्वञ्चयेथा१ नः । १६१. पुरा धनिका विदुषां पुरस्कारेण विद्यायै स्वं प्रेमाणं प्रकटयन्ति२ । १६२. हिन्दवोऽधुनापि मौहम्मदेभ्यो मैत्रीं मृगयन्ते । १६३. एधानामाहारका ग्रामीणा वनानि प्रस्थिताः । १६४. शूद्राः स्वकर्मनिरतास्त्रीन् वर्णानुपचारिणोऽभवन् । १६५. व्यवसायस्याश्रिता सम्पद् इति लौकिकाः परीक्षकाश्च । १६६. कुतो वा कस्माद्वा सोऽभिभूत इति जिज्ञासते जनः । १६७. प्रद्वेषकप्रयुक्ता यवनाः सोमनाथमूर्तिं प्राहार्षु: । १६८. संस्कृतावहेलनं भारतवास्तव्येभ्यो न शोभते । च । १६० वचः श्रद्दध्म इत्येव । वक्तरि तु द्वितीयाचतुर्थीसप्तम्यो दृश्यन्ते। श्रदस्मै धत्त स जनास इन्द्र (ऋ० २।१२।५) इति चतुर्थ्या उदा- हरणम् । श्रत्ते दधामि प्रथमाय (ऋ० १०।१४७।१) इति कारकत्वाविवक्षायां षष्ठ्यपि दृश्यते-यतरो विवद- मानयोराहाहमनुष्ट्या चक्षुषाऽदर्शमिति तस्य श्रद्दधति (ऐ० ब्रा० २।४०।)। १६१. विद्यायामिति वक्तव्यम् । विद्या हि प्रेम्णो विषयः । १६२. मौहम्मदशब्दात् सहार्थे तृतीया वा विषयसप्तमी वा प्रयोक्तव्या । १६३. अकेनोर्भविष्यदाधमर्ण्ययोरिति षष्ठीनिषेधे एधानाहारका इति वक्तव्यम् । एधानाहरिष्याम इति प्रस्थिता इत्यर्थः । १६४. कृद्योगलक्षणा षष्ठी प्रयोक्तव्या । त्रयाणां वर्णानामिति । उपचारिण उपसर्गेऽप्युपपदे ताच्छील्ये णिनिर्भवतीति दीक्षितः । १६५. व्यवसायमाश्रितेति साधु । क्तयोगे षष्ठीनिषेधात् । १६६. कस्य हेतो: केन वेति साधु । कर्तरि क्तः । १६७. ईदृशेषु स्थलेषु प्रहरतेः प्रयोगे कर्मणोऽधिकरणत्वविवक्षा लौकिकी प्रसिद्धति सोमनाथमूर्ताविति वक्तव्यम् । अगृहीतहेतिष्विशिक्षितो मे भुजः प्रहर्तुमिति हर्षचरिते । १६८. भारतवास्तव्यानामिति शेषे षष्ठी साधुः । विषयसप्तमी वा प्रयोक्तव्या। १. गृधिवञ्च्योः प्रलम्भन इत्यात्मनेपदम् । २. पुरि लुङ् चास्मे इति लट् ।