६४ शब्दापशब्दविवेके
१५१. शिवादयः शब्दाः शवादिषु परिवर्त्य लिख्यन्ते कैश्चिदानु-
पूर्व्यामनाद्तै१ र्लिपिकरैः।
१५२. सायन्तनं सवनकर्म सम्प्रवर्तयिष्याम इति सलिलेऽवगाहन्ते
मुनयः ।
१५३. गुरुजनमनुसरन्तश्शिष्या अवतीर्णा निम्नगायामभिषेकाय ।
१५४. विद्यायाः सहचारी विनयो यवनेभ्यो नतरां संभाव्यते ।
१५५. भीतो बाल आगन्तुकं क्व मेऽम्बेति क्षीणतरे स्वरे पप्रच्छ ।
१५६. भद्र ! कां कलां वेत्थ, किं वा शिल्पम्, का च ते भृतिर्जिघृक्षिता।
१५७. केचित्प्रजासु प्रकोपमिच्छवो वर्तमानावस्थितेरसन्तुष्टा विधि-
त्सन्ति तम् ।
१५८. इहाऽपां पूर्णानि पात्राणि यत्र तत्र निहितानि वह्न्युत्पातशमनाय ।
१५६. कृतज्ञो हि स्वस्योपकारिणं स्निह्यति, प्रत्युपचिकीर्षति च ।
-
१५१. शवादिभिः शवादिरूपेण वेति साधु । प्रकृत्यादित्वात्तृतीया ।
१५२. गाहू अवलोडने इति सकर्मको धातुः । तथा च कवीनां प्रयोगाः
प्रथन्ते:-सलिलमवगाढो मुनिजन इति स्वप्नवासवदत्तायाम् ।
पूर्वापरौ तोयनिधी बगाह्य स्थितः पृथिव्या इव मानदण्ड इति
कुमारे । तेन सलिलमित्येव साधु ।
१५३. तरते: सकर्मकत्वाद् अवतीर्णा निम्नगामित्येव साधु ।
१५४. यवनेष्विति साधु । यवना हि संभावनाया आधारभूता विषयः ।
१५५. क्षीणतरेण स्वरेणेति वक्तव्यम् । स्वरः शब्दः । स च प्रश्नस्य
(जिज्ञासायाः) करणमिति करणे तृतीया साध्वी स्यात् ।
१५६. त्वयेत्यनुक्ते कर्तरि तृतीयया भाव्यम्, क्तयोगे षष्ठीनिषेधात् ।
१५७. वर्तमानावस्थितिर्ह्यसन्तोषस्य विषय इति तत्र सप्तमी युक्ता।
१५८. अपामिति षष्ठी व्यवहारानुगता । तथा च काशिकायां प्रयोग:--
ओदनस्य पूर्णाश्छात्रा विकुर्वत इति । उदाहरणान्तराणि वाग्व्य-
वहारादर्शे द्रष्टव्यानि ।
१५६. स्निह्यतिरकर्मकः, तत्प्रयोगे उपकारिणि इति सप्तमी युक्ता ।
प्रत्युपचिकीर्षति च तमिति वक्तव्यम्।१. कर्तरि क्तः । अकृतादरः ।