पृष्ठम्:शब्दापशब्दविवेकः.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कारकविभक्त्यधिकारः ६३


१४२. इदं नो वाचकेभ्य: सानुरोधमभ्यर्थनम् । १४३. असकृद् व्याख्यातमपीदं पद्यं नास्माकं मतावुपारोहति । १४४. मध्यरात्रमपि प्रजागरे नयन्तस्ते नाप्तकामा अभूवन्निति चित्रम् । १४५. संस्कृतभाषाया: सर्वसाधारण कियानादर इति न विदितं ते १४६. दारिद्र्यदुःखदग्धाय स्वदेशाय तस्य हृदये कापि वेदना नाभूत् । १४७. लोका लोभाय धर्मस्य बलिं ददति प्रायेण, तेन१ न्यञ्चन्त्यहरहः । १४८. अहं हि भवतां छायेवानुगत इति परिपाल्यो भवद्भिः । १४९. तस्मिन्समये धर्मशास्त्रनिबन्धा अपि तस्मिन्नेव रागे रञ्जिता अभूवन् । १५०. मूलस्य रक्षणमविगणय्य न जातु शाखानां समृद्धिर्भवितुं शक्या। १४२. वाचकेष्विति साधु । ईदृशे विषये चतुर्थ्या नावसरः । याच्ञा मोघा वरमधिगुरणे इति मेघे कालिदासप्रयोगः । १४३. मतिमुपारोहतीति वक्तव्यम् । आरोहतेर्नित्यं सकर्मकत्वात् । १४४. प्रजागरेणेति इत्थम्भूतलक्षणे तृतीया वक्तव्या काव्यशास्त्रविनो- देन कालो गच्छति धीमतामित्यत्र यथा । १४५. संस्कृतभाषायां जनस्य (जनसामान्यस्य) कियानादर इत्येवं वक्तव्यम् । सर्वेषां साधारण इति सर्वसाधारणः । सर्वसाधारण इति नापेक्ष्यते जनशब्देन गतार्थत्वात् । संस्कृतभाषा ह्यादरस्य विषय इति तत्र युक्ता सप्तमी । कस्यायमादर इत्याकाङ्क्षायां जनस्येत्युच्यते। जनस्य (जनसामान्यस्य) इत्यनुक्त्वा सर्वसाधारण इत्येवोच्यताम् । सर्वसाधारण आदर इत्यन्वयः । सर्वेषां साधारण इति षष्ठीसमासः । १४६. दारिद्रयदुःखदग्धस्य देशस्य कारणात् तस्येत्येवं वाक्यं प्रणेयम् । १४७. धर्मं बलिमित्येव साधु । धर्मो बलित्वेन रूप्यते इति धर्म बलि- मिति व्यस्तरूपकेणाभिधाने रूप्यरूपकयो: सामानाधिकरण्यम् । १४८. अनुगत इति कर्तरि क्तः । भवतश्छायामिवानुगत इति वक्तव्यम्। १४९. तेनैव रागेण रक्ता इत्येवं वक्तव्यम् । तेन रक्तं रागात्(४।२।१) इति लिङ्गाद्रागस्य करणतेष्टा । रञ्जिता इत्यत्र व्यर्थो णिच् परिहार्यः । १५०. शक्येति भावे कृत्यः । तेन समृद्ध्या भवितुं शक्यम् इत्येवमुपन्य- सनीयम् । १. अघो गच्छन्ति ।