पृष्ठम्:शब्दापशब्दविवेकः.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६२ शब्दापशब्दविवेके


१३३. दिशि दिशि परीतास्य विदुषः कीर्तिराचन्द्रदिवाकरं स्थास्यति । १३४. यदि कल्पस्य कलिती कश्चिद् गृह्योक्तानि कर्माणि संशोधये- त्संक्षिपेच्च तदा लोकस्यानल्पमुपकुर्यात् । १३५. अयं श्रुतपूर्वी भारतं तेनास्य विदिता वृत्तान्ताः कुरुपाण्डवानाम् । १३६. अत्रावसरे सहानुभूतिं निवेदयामः संस्थितस्य१ कुटुम्बकेन । १३७. न वाचि स्वातन्त्र्यं ददति लोकं प्रति शासितारः। १३८. इह भारते पतिमन्वारोहणमप्यकारि स्त्रीभिः साध्वीभिः । १३६. मन्ये मूर्तिमदस्य पापजातं समुदस्थीयत । १४०. शयनमुज्जिहान एवासौ प्रथमं मातुश्चरणयोर्नमति ततः पितुः । १४१. न तेन गणिकासुता चरणसेवया हापिता२ । १३३. दिशं दिशं परीता (परिगता) इत्येवं वक्तव्यम् । गत्यथत्वात् कर्तरि क्तः। १३४. कल्पे कलितीत्येव साधु । क्तस्येन्विषयस्येति कर्मणि सप्तमी। १३५. पूर्वं श्रुतमनेनेति श्रुतपूर्वी । इनिस्तद्धितः । तेनानुक्तत्वाद्भारत- मिति कर्मणि द्वितीयान्तं साधु । १३६. अत्र वाक्ये सहानुभूतिरित्येकं पदम् । तेन कुटुम्बेन नास्य सहशब्दस्य योगः । तस्मात् क्रियाग्रहरणमपि कर्तव्यमिति वार्तिकेन कुटुम्बायेति चतुर्थ्यन्तं साधु । कुटुम्बस्य निवेदन- क्रिययाऽभिप्रेयमाणत्वात् । सहानुभूतिरित्याधुनिकी शब्दक्लृप्तिः । समवेदनेति तु प्रयोज्यम् । १३७. उपपदविभक्तेः कारकविभक्तिर्बलीयसीति लोकायेति वक्तव्यम् प्रतिशब्दश्च परिहार्यः । १३८. अन्वारोहणमित्येकं पदिमिति कृद्योगलक्षणया षष्ठ्या पत्युरिति वक्तव्यम् । १३६. मूर्तिमता पापजातेनेति साधु । समुदस्थीयतेति भावे तप्रत्ययः । १४०. कर्मणोऽधिकरणत्वविवक्षायां चरणयोरिति सप्तमी साध्वी । १४१. अणौ गणिकासुता चरणसेवां जहातीति वाक्यम्, णौ तु गणिकासुतया चरणसेवां हापयति इति भवति । कर्मवाचिनि क्ते तु गणिकासुतया चरणसेवा हापितेति साधु । १. मृतस्य । २. त्याजिता।